पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीकस्साङ्ख्यतत्वकौमुद्याम् ।

देवदत्तः इत्येवं यदा वोधस्तदा लक्षितलक्षणेत्यपि द्रष्टव्यम् ।

यत्र तु स एव संबन्धो न संबन्धत्वेन रूपेण भासते अपितु तन्निष्टगुणवत्वादिना भासमान एव देवदत्तादिविशेष्यकबोधे प्रकारीभवति तत्र तादृशशाब्दत्वावच्छिन्नं प्रति गौणीपदाभिधेया स्वशक्यनिष्टगुणवत्ता तत्त्वेन ज्ञाता कारणम् । नचैवं यत्र गङ्गापदात् तीरत्वनात्रप्रकारको बोधस्तादृशस्थले वृत्तिद्वयस्यापि कार्यतावच्छेदकाभावाच्चतुर्थवृतिस्वीकारापत्तिः। तीरत्वमात्रमकारकबोधस्यानुभवपथमनारूढतयाऽलीकत्वात् । अन्यथा। समुद्रतीरे नद्यन्तरतीरे वेत्येवं संशयापत्तेः ।

स्वशक्यगुणवत्ता गौणीयत्र गुणवत्ता च कचित् तत्समानजातीयगुणवत्त्वसम्बन्धेन क्वचिदारोपेण साक्षादेव ।

तत्राद्या यथा सिंहपदस्य वाच्ये सिंहे विद्यामानैः प्रष्यकारित्वादिगुणैः समानजातीया गुणा देवदत्ते सन्तीति तत्र गौणी । ततश्च सिंहवृत्तिगुणसमानजातीयप्रकारकदेवदत्तविशेष्यकशाब्द- बोधत्वावच्छिन्नं प्रति सिंहपदशक्यवृत्तिगुणवत्ताज्ञानं कारणम् । तत्र सिंहपदोच्चारणे सति शक्त्यैव प्रतीयमानेन सिंहेन स्ववृतिगुणानाम् ‘एकसम्बन्धिस्मरणेनेतरसम्बन्धिस्मरणम्'इति न्याये नोपस्थापनातैश्च तेनैव न्यायेन तत्समानजातीयगुणवत्ताज्ञापनात् । एवंविधगुणवत्ताज्ञाने सति सिंहृपदादुक्तविधशाब्दबोधोत्पत्तौ न किञ्चिद्भाधकम् । अत एव गुणादीनामुक्तविधकार्यतावच्छेदककोटिप्रविष्टत्वादेव नाशाब्दत्वम् ।

द्वितीया तु यत्र रुपकादौ सत्यपि भेददर्शने सादृश्यमात्रेण सिंहनिष्ठसिंहत्वक्रूरत्वादि देवदत्ते वक्त्रा आरोप्य सिंहशाब्दे प्रयुक्त श्रोता तथैव प्रतिपद्यते, तत्रानुभवसिद्वारेपापह्नवे प्रमाणाभावात् । साक्षात्सम्बन्धेनैव स्वशक्यनिष्ठगुणवत्ता गौणी वृत्तिः ।

अत्र च गुणपदं समवेतमात्रपरम् । सिंहत्वादेरप्यारोपाङ्गी-