दिति वाच्यम् । अज्ञानस्यात्मन्यध्यस्वतया तत्परिणामपस्यात्म- निष्ठतया स्फुरणसम्भवात् । नच तथा सत्यर्थध्यासस्यैवेदं रूप्य-: मिति बहिष्ठत्वेनोपालम्भो न स्यादितिशङ्क्यं । ज्ञानोपादानत्वंऽपि शुक्तीदमंशस्याज्ञानाधिष्ठानसंभवात् । न च तथासति अर्थाध्यास- स्यैवेदं रूप्यमिते बहिष्ठत्वनोपालम्भो न चैतन्यावच्छेदकत्वेन त- न्निष्ठतयोपलम्भसम्भवादिति ।
तस्मादध्यासोपादानं मिथ्याभूतमज्ञानमिति मिद्धम् ' तञ्च भाव: रूपमभावस्योपादानत्वानुपपत्तेः । तत्र प्रमाणानि प्रत्यक्षानुमाना- र्थापत्त्यागमाः । तत्र प्रत्यक्ष तावदहमज्ञो मामन्यं च न जानामी- ति सामान्यतो विशेषतश्च विषयव्यावृत्ताज्ञानाश्रयत्वेनात्मनि प्रतीतिद्वयं साक्षिचैतन्यं केवलमज्ञानं नावभासयतीत्युत्तरतत्त्वदी- पनानुरोधेनाज्ञ इति प्रतीतावनुल्लिख्यमानत्वेऽप्यज्ञानव्यावर्तकत- याभासस्याभ्युपगन्तव्यत्वात् ।
तत्र विचार्यते । कथमनया प्रतीत्या भावरूपाज्ञानसिद्धः । ज्ञा- नाभावविषयत्वेनान्यथासिद्धेः । नच धर्मिप्रतियोगिज्ञानसत्त्वाभ्यां ज्ञानाभाचविषयत्वासम्भव इति वाच्यम् । ज्ञानाभावविषयत्वाभा- वो हि किं सामान्याभावविषयत्वासम्भवो विशेषाभावविषयत्वास- म्भवा वा नाद्यः । अन्यत्र चाक्षुषज्ञाने आलोकापेक्षायामपि त- मोविषयकचाक्षुषज्ञाने विषयविरोधेनालोकानपेक्षणवदभावान्तर- ज्ञाने धर्मप्रतियोगिज्ञानापेक्षायामपि ज्ञानस्यान्याभावज्ञाने तदन- पेक्षणात् । अतएव प्रतियोगिबहिर्भवणैव प्रतियोग्युपलम्भकसमव- धानस्य योग्यतारूपत्वमभिमतं न्यायविदाम् ।
नच ज्ञानसामान्याभावज्ञानमेव न सम्भवति ज्ञानकाले ग्राह्य- स्यैवाभावात् । ग्राह्यकाले च ज्ञानस्यैवासम्भवात् । परस्पराभा- वरूपतया विरोधाद्विषयासत्वकाले सम्भवाद्वा ज्ञानं भ्रम एव भवेत् । नच तद्भ्रूमत्वेन व्यवह्नियत इति शङ्क्यं विषयस्य हि प्रत्यक्षे विषय-