तया कारणत्वं तच्च पूर्ववर्तित्वमात्रेण निर्वहति नतुत दर्थं सहभावो मृग्यते तथाच ज्ञानानां प्रामाण्यमव्यवहितपूर्वक्षणान्तर्भावंण स्थूल- कालोपाधिमादाय व्यवसाये प्रामाण्यमभिमतं न्यायविदाम् ।
न द्वितीयः । प्रमाणज्ञानाभावविषयत्वसम्भवात् । प्रमाणज्ञानं गोचरयतः प्रतियोगिज्ञानस्य सविषयक प्रमाणगोचरतायार्थज्ञा- नत्वेऽपि तस्य साक्षज्ञानरूपतया तत्सत्वऽपि प्रमाणज्ञानाभावस: म्भवात् । अज्ञानप्रमाणज्ञानयोर्विरोधपारहाराय सिद्धान्तना त- थार्थस्यावश्यकाभ्युपेयत्वाच्च ।
नचे प्रमाणज्ञानाभावविषयत्वेऽहं प्रज्ञो न प्रमापयामीति प्रती- त्या कारापात्तिः । अभावङ्गोचरयन्त्याः प्रतीतेः प्रतियोगिनि प्रति- योगितावच्छेदकप्रकारकत्वनियमादिति वाच्यम् । नेदं रजतामिति प्रीतीतेर्लोकपारमार्थिकरजतप्रतियोगिकभावविषयत्वस्य सिद्धा- न्तिनाङ्गीकारेऽपि प्रतियोगिनि पारमार्थिकरजतत्वरूपप्रतियोगि- तावच्छेदकविषयत्वानभ्युपगमात् ।
अत्र ब्रूमः । यत्तावदुक्तं सामान्याभावपक्षे ग्राह्यविरोधेन ध- र्मिप्रतियोगिज्ञानमनपेक्षमेवेति तन्मदम् । अभावप्रत्यक्षस्य प्रतियोग्यं- शेऽलौकिकत्वेनोपनायकतया प्रतियोगिज्ञानस्यावश्यापेक्षणात् । नहि प्रतियोगित्वाभावत्वयोरिवे प्रतियोगिनोऽपि तुल्यवित्तिवेद्य- त्वं येनोपनायकाभावेऽप्यभावप्रत्यक्ष प्रतियोगी भासेत । किञ्च क्रि- याहितातिशयाश्रयत्वेनैव कर्मत्वात्कथं ज्ञानोत्पत्तिकाले एव निवृ- तस्वरूपस्य ज्ञानसामान्याभावस्य क्रियाहितातिशयाश्रयत्वसम्भा- वनापि । अत एवोभयतः पाशरूपानुपपत्तिरशनया निबद्धं ज्ञानसा- मान्यभावप्रत्यक्षम् ।।
यदपि प्रमाण ज्ञानाभावाविषय एत्रायमनुभवः । नच प्रतियो- गिनि प्रमाणत्वभानापत्तिः । नदं रजतमित्यत्र व्यभिचारादिति । तदपि न । तथाहि यत्र प्रतियोगिभानसामग्री प्रतियोगिता-