पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

वच्छेदकभानमामग्री नियते प्रतियोगिज्ञानं प्रतियोगितावच्छेदकमा- दायैवोदेति तत्र प्रतियोगितावच्छेदक प्रकारकपतियोगिज्ञानजन्यत- याऽभावज्ञानं प्रतियोगिनि प्रतियोगितावच्छेदकप्रकारकमेव भवे- ति उपनीतभानस्योपनायकसमानप्रकारकत्वनियमात् ।

 यत्र तु प्रतियोगिभानसामग्री न तथेति प्रतियोगिज्ञानं प्रति योगितावच्छेदकप्रकारकमिति वस्तुस्थितिः । त्वदुक्तमर्थं न जाना- मीत्यर्थेन सहानुभूयमानत्वात्प्रतियोगिज्ञानकालीनत्वाञ्चाप्यज्ञा- ने न ज्ञानसामान्याभावः । नचार्थज्ञानकालेऽर्थगतसंख्यादिज्ञाना- भावमादाय प्रतीत्युपपत्तिरिति युक्त । अन्यत्र तत्सम्भवेऽपि संख्या- यां संख्यान्तराभावेन संख्यां न जाना मीत्यत्र संख्याज्ञानाभावविष यत्वासम्भवात् । नाप्युक्तार्थ ज्ञानस्य वाक्यजज्ञानविषयत्वेऽप्यप रोक्षज्ञानाभावाविषयेयमिति वाच्यम् । त्वदुक्तमर्थं न जानामीति प्र- ततेरप्यविषयाया अपरोक्षायाः सत्त्वेऽपरोक्षज्ञानाभावासम्भवेन भ्रमत्वापत्तेः । नित्यपरोक्षेऽपूर्वादावपरोक्षज्ञानस्यैवासम्भवाञ्चा । सामान्यतो ज्ञानेऽपि सम्भवाद्विशषज्ञानाभावविषयिणीयं प्रतीतिः सच संख्यावति तद्वत्तया ज्ञायमानसंख्याज्ञानाभावरूपः संख्या- दौ च परोक्षापरोक्षज्ञानयोग्ये परोक्षतयाऽपरोक्षतया वा ज्ञाने तद- न्यतरज्ञानाभावरूपपरोक्षैकस्वभावे धर्मादौ च शास्त्रार्थत्वेन ज्ञानेऽपि हिताहितप्राप्तिसाधनत्वज्ञानाभावरूप इति न कदाचिदनुपपत्ति: रिति चेत् ।।

 न, सङ्यादिरूपविशेषज्ञानाभावविषयत्वासम्भवात् विशेषविष- यक ज्ञानसत्वे तस्यैव विशेषज्ञानत्वेन तदभावरूपग्राह्यस्यैवाभावात् तदसवे तु प्रतियोगिज्ञानरूपकारणभावात् । नच ज्ञानतदभाव- योरिव तज्ज्ञानतद ज्ञानयोरपि विरोधः । इतरथा सत्यपि चाक्षुषा- दिकुम्भानुभवे तदज्ञानानुवृत्तिप्रसङ्गात् । तथाचोक्तप्रतीतेर्ज्ञानाभा- वविषयत्ववदज्ञानविषयत्वमप्यनुपपन्नमिति वाच्यम् । न जानामी-