पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७३
मनोनिरूपणम् ।


त्यज्ञानस्य विरोधिज्ञानसत्त्वे तन्निवर्यत्त्वेनाज्ञानासम्भवश्च । ज्ञा- नाभावे न जानामीत्यनापत्तेरज्ञानस्यापि ज्ञानविषयत्वान् । नच सा- क्षिज्ञानस्याज्ञानसाधकन्वं वृत्तिज्ञानस्य च तन्निवर्त्तिकत्वमिति न विरोध इति वाच्यम् । अज्ञानस्य सविषयकत्वस्य सत्त्वान्निर्विषया- ज्ञानासिद्धेः । तत्तद्विषयविशिष्टज्ञानस्य तत्तद्विषयविशिष्टज्ञानानिवर्त्त्य- त्यादती निवर्त्तकज्ञानमत्त्व नाज्ञानं तदभावे तत्साधकाभावान्ना ज्ञानसिद्धिः ।

 नच तज्ज्ञानातिरिक्तसाक्षिज्ञानमस्ति अनभ्युपगमादिति चेन्न । अज्ञानस्य सविषयकत्वानुभवेऽपि विपयोपादानतया तस्य विषया- त्प्राकसिद्धेः सुषुप्तौ विषयाभावऽपि नाज्ञामिपमिन्युन्थितस्य परा- मर्शदर्शनाच्च निर्विषयाज्ञानसिद्धेः । नच विषयात्प्राक् ब्रह्मविष- यकं सम्भवतीति वाच्यम् । विषयात्प्राक् तद्विपयकत्वे मानाभा- वेन विषयाध्यासोत्तरं विषयविशिष्टज्ञानभानात्तत्साधकचैतन्य सिद्धेः । अन्यथा घटमहं न जानामीत्यनुभवाभावप्रसङ्गात् । नह्य- ज्ञाननाशविशिष्टघटभानं मानासिध्यति मानस्याज्ञातता निवर्त्त- कत्वात् ।।

 यथाथानुभवो मानमिति वदद्भिस्तार्किकैरप्यनुभवपदेन ज्ञातता- पिकाया (?) स्मृतेर्व्यवर्तितत्वात् । तथाचाज्ञाततज्ञापनं प्रमाणमिति प्रमाणलक्षणात् । घटनिष्ठाज्ञतता न प्रमाणेन विषयीकर्तुं शक्य तेऽज्ञानं साक्षिभास्यं प्रमाणनिवर्त्त्यं चेति । नहि घटनिष्ठाज्ञतता प्रत्यक्षेण विषयीक्रियते चाक्षुषादिज्ञानोत्तरं तस्या अनुवृत्तिप्रसङ्गा- छ । नापीदानी ज्ञातत्वेन प्रागज्ञातत्वसिद्धिः । धारावाहिके व्य- भिचारात् । नापीदानीमेव ज्ञातत्वेन तत्सिद्धः प्रागज्ञातत्वेने- दानीमेव ज्ञातत्वसिद्धिस्तत्सिद्धौ च तत्सिद्धिरितीतरेतराश्रयात् । अतो न प्रमाणादज्ञाततासिद्धिस्तदसिद्धावपि घटं न जानामीत्य- ज्ञानविशिष्टघटज्ञानदर्शनात्तद्भासकत्वेन साक्षिसिद्धिः । अज्ञान-