पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

स्य वृत्तिविरोधिवेऽपि साक्षिचैतन्याविरोधित्वादन्यथा तद्भास्य- त्वानुपपत्तेः इति ।

 अत्र केचित् । तत्राप्युक्तप्रतीतौ भासमानमज्ञानं न ज्ञानाभा- वः । अर्थविषयकतानुभूयमानत्वाज्ज्ञानवदित्यभिप्रेतं किंवा उक्त रूपमज्ञानं नार्थज्ञानाभावः । अर्थज्ञानकाले प्रमीयमाणत्वादर्थवत् । नचायोजकत्वमर्थज्ञानकाले प्रतियोगिनि स्थिते तदभावासम्भवे- न तत्प्रमाणसम्भवादिति ।

 नाद्यः । मुख्यार्थविषयत्वविवक्षायामसिद्धः । अज्ञाने मुख्यायाः जडसङ्ख्यादिरूपार्थविषयतायाः सिद्धान्तिनानभ्युपगमात् । अर्थ- विषयत्वमात्रविवक्षायां तु ज्ञानाभाव एवं व्यभिचारात् । अर्थविष: यकज्ञानपर्युदासेनाभिधीयमानतया वार्थेन सकस्मिन्नधिष्ठानेऽध्य स्ततया वाऽज्ञाने औपचारिकार्थविषयतावदर्थविषयकज्ञाननिषेधे- नाभिधीयमानतया ज्ञानाभावेऽपि तत्संभवात् ।

 न द्वितीयः । अप्रयोजकत्वादेव साक्षिप्रतिभासरूपार्थज्ञानका- लेऽपि प्रमाणरूपार्थज्ञानाभावात्मकतया ज्ञानाभावरूपत्वेऽपि प्रमीय माणत्वोपपत्तरिति ।

 तन्न । द्वितीयानुमानपरत्वाभ्युपगमात् । उक्तरीत्या प्रमाणज्ञा- नाभावविषयत्वासम्भवेनान्यथासिद्ध्यद्भावात् । प्रमाणज्ञानाभाववि- षयत्वे प्रतियोगिनि प्रतियोगितावच्छेदकं प्रामाण्यं भासेतैव प्रामाण्य- स्य स्वतस्त्वेन ज्ञानभानसामग्रीनियतसामग्रीकतया प्रतियोग्यनुप- नायकस्य प्रतियोगिज्ञानस्य प्रामाण्यप्रकारकत्वावश्यंभावात्। अनु- मानमपि विवादगोचरपन्नं स्वप्रमाणज्ञानं प्रागभावव्यतिरिक्तस्ववि- षयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकं । अप्रकाशितार्थप्र- काशकत्वात् । अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । स्वभाग- भावव्यतिरिक्तेतिपदमहिम्ना भावरूप, स्वविषयावरणेतिपदमहिम्ना समानविषयं विषयानुभवसंशब्दितस्य प्रमाणज्ञानस्य चिन्मात्रस्या-