न्तःकरणवृत्युपधानेन नद्धमत्वाभ्युपगमात् न जन्यवानुपपत्तिः ।
स्वदेशगतपदमहिम्ना च समानाश्रयं पक्षधर्मताबलादज्ञानं सिद्ध्यति ।
अत्र यथोक्तविशेषणावशिष्टस्वानिवर्त्त्य वस्त्वन्तरस्याज्ञानातिरि- क्तस्यासम्भवेन तन्निवत्तकप्रमाणज्ञानमेव भवतीति साध्यविशेषो- पादानंमहिम्ना तस्यैव साध्यविवादलाभेन विवादगोचरपन्नमिति पदासि- द्धस्य धर्मिविशेषस्य स्पष्टीकरणार्थं प्रमाणज्ञानमित्युक्तम् । धारावा- हिकज्ञाने भागवाधासिद्धिवारणाय विवादगोचरापन्नमति पदं तद्भिन्नज्ञानपर माध्ये स्वप्रागभाव्यतिरिक्तेतिपदत्यागे प्रागभाव- मादायार्थान्तरता, अस्ति हि तस्य स्वविषयावरणत्वं स्वप्रयोज्यव्य- वहाराभावप्रयोजकत्वस्य स्वविषयावरणशब्दार्थत्वात्स्वनिवर्त्त्यत्वं स्पष्टं प्रमातृगतत्वेन प्रमाणसमानदेशत्वमपि तथा वस्त्वन्तरमपि अत्र वस्तुशब्दस्य मिथ्याज्ञानपरतया तद्भिन्नत्वस्य वस्त्वन्तरशब्दार्थत्वात्।
तथा स्वविषयावरणपदत्यागे स्वनिवर्त्त्यपूर्व ज्ञानमादायार्था न्तरता तस्य स्वप्रागभावव्यतिरिक्तत्वे सति स्वनिवर्यत्वे च प्रमा णगतत्वेन स्वदेशगतत्वच सति मिथ्याज्ञानाभिन्नत्वात् स्वविषया-- वरणपदोपादाने तु न तमादायार्थान्तरता पूर्वज्ञानस्योत्तरज्ञानप्रयो- ज्यवहाराभावं प्रयप्रयोजकत्वात् तथा स्वनिवर्त्यंपदत्यागेऽदृ- मादायार्थान्तरता तस्य कार्य मात्र प्रयोजकतया प्रमाणप्रयोज्यव्यव- हाराभावं प्रत्यपि प्रयोजकत्वेन स्वविषयावरणत्वात् इतरत्तु स्पष्टम् । तथास्वदेशगतपदं विषयगतज्ञाततामादायार्थान्तरव्युदा- सार्थम् । वस्त्वन्तरपदं तु मिथ्याज्ञानमादाय तयुदासाय मि- थ्याज्ञानस्य प्रमाणप्रयोज्यव्यवहारविपरीतव्यवहारप्रयोजकतयाः प्रमाणप्रयोज्यव्यवहाराभावप्रयोजकत्वात् हेतौ च धारावाहिकज्ञाने व्यभिचारव्यावृत्यर्थमप्रकाशितेति दृष्टान्ते मध्यवर्तिप्रदीपप्रभाया साध्यसाधनवैकल्यप्रहाणार्थं प्रथमाविशेषणं सवितृकिरणव्यासदेश- स्थप्रदीपव्यावृत्यर्थमन्धकार इति ।