पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
'३७७
अविद्यायां प्रमाणोपन्यासः ।

वरणस्वनिवर्त्त्यपूर्वकं तमोविरोधित्वात् । प्रथमोत्पन्नप्रदीपप्रभावत् इत्येकम् । तथा प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वदेशगतवस्त्वं- तरपूर्वकमप्रकाशितार्थप्राकाशकन्वादन्धकारे प्रथ मोत्पन्नपभावदि- त्यपरमिति ।।

 तञ्चिन्त्यम् । यन्मते प्रतियोगिनः प्रागभावनिवर्तकत्वं न तु नि वृत्तिरूपत्वं तथा ज्ञानमेव गगनकुसुमायमानमतों ज्ञानमेव ज्ञाननिव- र्त्त्यं नान्यदिति कथापि न यत्कर्णपथमवतीर्णा तम्प्रत्येतदनुमानप्र योगेण पदवैयर्थ्याशङ्काया अप्यभावात् । परमतेन पर बोधनीय इति ब्रह्मवादिनां समयवन्धेन यं प्रतिवादी कृत्य भावरूपाज्ञानसाधनं तन्मतमर्यादयैवानाभासीभूतहेतुप्रयोगेण व्यवहर्त्तैमुचितत्वादन्यथा स्वीकृतनियमभङ्गे निग्रहापत्तेः ।।

 न च तथापि विवादगोचरपन्नामिति पक्षविशेषणं व्यर्थमेव धा- रावाहिकज्ञानानामुत्तरकालावच्छिन्नत्वेनाज्ञातज्ञापकतयोक्तसाध्यस- त्वेन बाधकाभावादिति । सूक्ष्मकालस्य प्रत्यक्षागोचरत्वात् । वस्तुमात्रस्य पूर्वमेव ज्ञातत्वात् । न चोपेक्षाज्ञाने भागासिद्धः । तत्र प्रवृत्तिनिवृत्तिरूपव्यवहाराभावेऽप्यभिज्ञाभिवदनव्यवहारसम्भ- वादतो यथाश्रुतमेव वरमिति । ।

 यत्तु स्वयमेवमुत्प्रेक्षितं तमोविरोधित्वादिति तदपेशलं विक- ल्पासहत्वात् । तथाहि । तल्किमन्धकारविरोधत्वं वा अज्ञानवि- रोधित्वं वा ज्ञानविरोधित्वं वा नाद्यः स्वरूयासिद्धेः । न द्वितीयः । अज्ञानस्य प्रसिद्धतया तद्धटितहेतोरप्यप्रसिद्धेः । नेतरः तथा स त्यनुगतरूपक्रोडीकारेण पक्षसषक्षयोर्हेतुसाधारण्येऽप्युभयवादिसि- द्धप्रागभावरूपज्ञानविरोधित्वमादायैव हेतोः पक्षधर्मतापर्यवसानं सा च स्वनिवर्त्त्य प्रागभावनिवर्तकत्वमात्रेणैवान्यथासिद्धेति यथो साध्यं प्रयुक्त हेतोरप्रयोजकत्वात्तस्माद्यत्किश्चिदेतत् ।।

 अर्थापत्तिस्तु । मिथ्याध्यासो मिथ्याभूतोपादानमन्तरेणा-


 ४८