पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

नुपपद्यमानस्तत्कल्पयति तस्य च मिथ्याभूतस्य सादित्वे उपादा- नपरम्पराकल्पनागौरवादनादित्वं यच्चानादिभावरूपं ज्ञानापोद्य तदज्ञानमिति आगमः । नेदं रजतमियादिना यदि प्रतिभासिकं रजत निषिध्यते तदा प्रतिभासकाले तस्य सत्त्वात्कथं त्रैकालिका- भावग्रहस्य प्रमात्वं । नापि पारमार्थिकं तस्याप्रसक्तेः । न हि धर्मि- प्रतियोगिज्ञानमेव निषधधीकारणमपि तु निषेधधीप्रतिक्षेप्यविष- यासञ्जकतया तत्संसर्गधीरपि अन्यथा गेहे घटोऽस्तीति प्रश्नानन्त- रमिव गेहं घट इति प्रश्नानन्तरमपि नास्तीत्युत्तरप्रसङ्गात् । तत्सं- सर्गज्ञानाभ्युपगमे च तस्यापरोक्षतया तदनुरोधेन शुक्तीदमंशे पा- रमार्थिकरजततादात्म्यस्यापि प्रतिभासिकत्वापत्तौ प्रतिभासि- कस्येव पारमार्थिकस्यापि रजतस्य निषेधानुपपत्तेः ।

 अत्र ब्रूमः । प्रतिभासिकमेव रजत नेदं रजतमिति निषिध्य- ते । न च कदाचित्तत्र सत्त्वात्कथं त्रैकालिकनिषेधः । प्रतिभासिक- तया तत्सत्वेऽपि पारमार्थिकतया सर्वदाऽसत्वात् । अत एवं प्रतिभा तमेव केवलं रजतं न तदस्तीत्यनुभवः । नचैकत्रैकप्रतियोगिक- सत्वासत्वयोर्विरोधः । अधिंकरणेऽवच्छेदकभेदेनेव प्रतियोगिनि प्रतियोगितावच्छेदकभेदेनापि विरोधभङ्गात् । न च व्यधि- करणधर्माचच्छिन्नप्रतियोगिताकाभावे मानाभावः । गवि शशशृंगं नास्तीति प्रतीतेः प्रमाणत्वात् । नासौ गोशृंगे शशीयत्वाभावमात्र विषयिणीति युक्तम् । गव्येव शशीयत्वविशिष्टशृङ्गनिषेधरूपत्वात् । अन्यथा भूतले घटो न, भूतलं घटो नेति प्रतीतिभ्यामपि घटे भूतल- संसर्गतादात्म्याभावावे सिद्धयेतां न तु संसर्गतादात्म्यावच्छिन्नघ टात्यन्ताभावान्योन्याभावौ । एतत्प्रतीतिद्वयं भूतल एव संसर्गता- दात्म्याभ्यामवच्छिन्नं घटमेव निषेधति न तु घटे भूतलसंसर्गतादात्म्ये इति यदि तर्हि उक्त पतीतिरपि गव्येव शशीयत्वावशिष्टशृङ्गमेव निषेधति न तु गोः शृङ्गे शशीयत्वमिति तुल्यम् ।