पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
मङ्गलविचारः ।

कारात् । तथाचारोपसाधारण्येन शक्यसमवेतवत्ता गौणीति । त्सज्ञ्ज्ञानकार्यतावावच्छेदकं च स्वश्क्यस्मवेतप्रकारकदेवदत्तादिविशे- ष्यकशाब्दत्वमित्यर्थः ।

नचैवं यत्र शक्यार्थस्यैवाप्रसिद्धिर्यथा खपुष्पादौ तत्र तन्निष्ठगु- णयोगाभावात् 'खपुष्पं भवत्सिद्धान्तः’ इत्यादौ तल्लक्षणस्याव्याप्त्या पत्त्तिरिति वाच्यम् । लतादौ प्रसिद्धे पुष्पे खाधिकरणकतामारोप्या- रोपिताधिकरणताकपुष्पमेव मुख्यं समासार्थमङ्गीकृत्य तन्निष्टगुणा नामलीकानां सिद्धान्तादौ सत्त्वेन गौणत्वोपपत्तेः । एवं बौद्धादि प्रयुक्तस्य 'खपुष्पमात्मा' इत्यादिवाक्यस्यापि । तमते अहंप्रत्यय- ग्राह्यस्य शरीरादेर्वस्तुतः शरीराद्यभेदेऽपि शरीरादिभिन्नत्वेन परारोपितस्यात्मशब्दार्थत्त्त्वात्तन्निष्ठगुणानामलीकानामात्मादौ सत्वेन गौणत्वोपपात्तिः ।

एवम् ‘आत्मा नास्ति’ इति बौद्धप्रयोगेऽपि प्रतियोगिप्रसिद्धिः संपादनीया ।

मधुसूदनस्वामिनस्तु-शक्यवृत्तिलक्ष्यमाणगुणसंबन्धो गौणी । यथा ‘सिंहो माणवकः’ इत्यत्र सिंहपदस्य सिंहवृत्तिशैौर्यादि- गुणलक्षणया तद्वति माणवके वृत्तिरिति । अत एव लक्षणा गौणीतो बलवती गौण्या वृत्तिद्वयात्मकत्वात् । तदुक्तम्

अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते ॥
लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टिा तु गौणता ॥ इति ।

अत्रोपचाराख्याऽपरा जघन्या वृत्तिरित्येके । अनियतसंबन्धे- नान्यत्र वृत्तिरुपचारः । यथा ‘मञ्चाः क्रोशन्ति’इत्यादौ पुरुषैः समं मञ्चसम्वन्धोऽनियतः । गङ्गातीरयोस्तु नियत एव संबन्ध इति ।

तन्न । एवमवान्तरभेदेऽपि लक्षणायामेवावान्तरश्क्यसंबन्धस्यो- भयत्रापि तुल्यत्वात्। गौण्यास्तु वृत्तिद्वयात्मकत्वाद् न लक्षणायामन्तर्भावः । न च सा दृश्यसम्बन्धेन सिंहपदस्य माणवके वृत्ति-