पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

युक्तम् । नास्त्यत्र रजतं रजतमित्यभादिति मिथ्यैव रजतमभादिति च कालत्रयासत्त्वविषयत्वेन मिथ्यारजतविषयत्वेन च संवित्प्रति- सन्धानादन्यतर संविद पह्नवायोगात् । शुक्तौ प्रवृत्तिः पुरोवर्तिरज- तज्ञानपूर्विका रजतार्थिनः पुरोवत्तिनि प्रव्रुत्तित्वात् सम्प्रतिपन्न: वृत्तिवदित्ययथार्थज्ञानसिद्धिः ।

 न च हेतोरप्रयोजकत्वम् । पूरोवर्त्तिज्ञानं विना प्रवर्तकान्तरा- भावेन हेतूच्छितेरेव बाधकत्वात् । प्रवर्तकान्तरं हि भवदिदं रज- तमिति ज्ञानद्वयं भवेदेकैकं वा ? अद्येऽपि किं मिलितं प्रवर्तक मुत- क्रमिकम् ? नाद्यः मनसः क्रमकारित्वनियमेन क्रमेणैवोत्पन्नयोः क्षणि- कयोः स्मृतिग्रहणयोमेलकासम्भवात् । न द्वितीयस्तया सतीदंग्रहण- स्य रजतस्मृतिव्यवहितत्वेन प्रवृत्यहेतुत्वापातात् । अव्यवहितपू- र्वक्षणवर्त्तिनो हेतुत्वनियमात् । द्वितीयेऽपि किमिदं ज्ञानं प्रवर्तकें रजतज्ञानं वा ? नाद्यः लोट्रेऽपि रजतार्थिप्रवृत्तिप्रसङ्गात्तस्यापीदमा- कारज्ञानाविषयत्वात् । न द्वितीयो देशान्तरीयरजते प्रवृत्त्यापत्तेस्त- स्मात्संसर्गज्ञानाभावे प्रवृत्त्यसम्भवस्य बाधकत्वान्नाप्रयोजकत्वं हेतोरिति ।।

 किञ्चानास्वादिततिक्तरसस्य बालस्य मधुरे तिक्ताभासः कथं स्मरणं स्यात्तिक्तरसस्याननुभवात् जन्मान्तरानुभवात्तत्कल्पने मा- नाभावात् । अन्यथाऽन्यदपि स्मयेत नरः। आस्वाद्य थूत्कृत्य गुडा- देस्त्यागदर्शनस्य परिशेषमुखेन जन्मान्तरानुभवजन्यतिक्तस्मृति- कल्पकस्य सत्वात् । न चेसप्तमरसस्याध्याभासापत्तेः तदत्यन्ता- सत्त्वे षड्रसातिरिक्ते रसत्वावभासः किन्न स्यात् । पित्तदोषस्य त- स्मृतावेवोद्बोधकत्वाङ्गीकारात् इति चेत् ? भान्तिव्यवहारानुपपत्तेः ।

 अस्तु तर्हि धीरूपस्य रजतस्याधीरूपत्वेन ख्यातिर्भतिः सैव चात्मख्यातिः । आत्मशब्देन बुद्धेरभिधानात् । न च रजतस्य धी- रूपत्वे मानाभावः । विमतं धीरूपं सम्प्रयोगजज्ञानाविषयत्वे सत्यप-