पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

रित्यन्यथाख्यात्येकदेशिनः । शुक्त्यात्मना स्थितं तुच्छरूप्यात्मना भातीति शून्यवादिनः । तथा चान्यस्यान्यत्रावभास इति स- वसाधारणम् ।

 शून्यवाद्याह-अन्यस्येति व्यर्थम्,न च सर्वज्ञानानामध्यासत्वा- पत्तिः, इष्टत्वात् । न चाधिष्ठानज्ञानाभावे कथं भ्रमत्वम्, पूर्वभ्रमसं- स्काराभ्यामेवोपपत्तावाधिष्ठानज्ञानस्य कारणत्वे मानाभावात् ।

 अत्र ब्रूमः, किं ज्ञानमात्रस्य भ्रमत्वं ब्रूषे उताविद्याजनितस्य ? नाद्यः शून्यज्ञानस्यापि भ्रमत्वप्रसङ्गात् । द्वितीयेऽपि किमधिष्ठानमात्र- मपन्हयेत तच्चान्वयव्यतिरेकाभ्यां पूर्वं तस्य सत्त्वात् । अपि चा- ध्यस्तमपि न शून्यं कथं पुनरधिष्ठानं शुन्यम्भवेत् ? न चाध्यस्तमपि शून्यमिति शङ्क्यम् , तथात्वे अपरोक्षावभासासम्भवात् । विनाशान- न्तरं च सर्वं शुन्यमेव । न च रजतस्य मिथ्यात्वे तद्धर्मस्येदन्त्वा- देरपि मिथ्यात्वमिति शम् । इदन्तायाः तद्धर्मवासिद्धेः तस्या- संयुक्तधर्मत्वात् ।

 न च रजतस्यापरोक्षत्वानुपपत्त्या संयुक्तत्वमस्तु इति शङ्यम् । इन्द्रियवृत्तिप्रापितापारोक्ष्यचैतन्यैकाध्यासादसंयुक्तस्याप्यपरोक्षत्वो- पपत्तेः । न त्वग्रहातविशेषत्वाभावानात्मन्यनात्माध्यासः । आ- त्मा नागृहीतविशेष अनन्यनिमित्तप्रकाशत्वाद्व्यतिरेके शुक्त्यादि- वत् । न चाप्रयोजकत्वम् । आत्माऽगृहीतविशेषः संविद्रूपत्वात् । स्वयम्प्रकाशत्वनित्यत्वरूपागृहीतविशेषविषयसंवेदनवदिति प्रत्य- नुमानपराहीतश्चेति वाच्यम् ।

 संवेदनं हि चैतन्यमुत वृत्तिः ? अद्ये तस्य पक्षत्वेन दृष्टा- न्तासिद्धेः । द्वितीये वृत्तौ स्वयम्प्रकाशत्वनित्यत्वादेरभावात् । अन्यानिमित्त प्रकाशत्वाञ्चागृहातविशेषत्वसम्भवेऽपि आत्मनि अता- दात्म्येन निरंशत्वेन तदसम्भवात् । न चात्मा न गृहीतविशेषः निरंशत्वाद्गगनवदिति साध्याभावसाधकमिति वाच्यम् । अन्याधीन-