पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८५
अविद्यायां प्रमाणोपन्यासः ।


प्रकाशत्वस्योपाधित्वात् । स्वयंज्योतिष्ट्वभङ्गस्य विपक्षे बाधकत्वाञ्च ।

 न चात्मा न स्वयं ज्योतिः व्यवहारपदत्वात् ववदिति वा- च्यम् । अत्रायं पुरुषः स्वयं ज्योतिः आत्मैवस्य ज्योतिः' इत्या- दिश्रुतिविरोधे वाधितत्वात् । न च ज्योतिःशब्दस्य प्रकाशगुणवद्द्र- व्यवाचकत्वान्न तत्सामानाधिकरण्यादात्मनो बोधरूपत्वमिति शङ्क्य्म् । ज्योतिःशब्दस्य तमोविरोधिप्रकाशमात्रवाचकत्वसम्भवे गौरवेण प्रकाशगुणवद्द्रव्यप्रतिपादकत्वकल्पनागौरवात् । न च प्रकाशमात्रवाचकत्वे आत्मनो गुणत्वापत्त्त्या सामानाधिकरण्यानुप- पत्तेः प्रकाशगुणवद्द्रव्यवाचकत्वं कल्यत इति वाच्यम् । ज्ञानरूप- स्य प्रकाशस्य गुणत्वासिद्धेः ।

 किश्चात्मनोऽन्याधीनप्रकाशत्वे घटादाविवात्मन्यपि प्रसक्त- स्पान्याधीनप्रकाशत्वस्ये व्यावृत्यर्थमुपात्तस्य स्वयमिति विशेषण- स्यात्मैवास्य ज्योतिरेयत्र एवकारस्य च कथं नानुपपत्तिः । न च घटादिज्ञानस्य स्वातिरिक्तकर्त्रादिकारकापेक्षादर्शनादात्मज्ञान- स्यापि प्राप्तं करकान्तराधीनत्वं व्यावर्त्तयितुं स्वयमिति विशेषण- मिति वाच्यम् । ज्योतिर्विशेष्यत्वेन ज्योतिरन्तरनिवृत्तेरेव तत्प्र- योजनतया कारकान्तरनिवृत्तेर्विशेषणफलत्वायोगात् ।

 किञ्च जन्मन्येव कारकापेक्षाऽतो जन्माभाव्चे आत्मज्ञाने का रकाधीनत्वापसक्तेर्न तन्निवृत्तिर्विशेषणप्रयोजनम् । न च जन्माभा- वोऽसिद्धः । विमतं जन्मवत् ज्ञानत्वाद्विषयज्ञानवदिति वाच्यम् । अप्रयोजकत्वात् । अत्मनि प्रकाश्यगुणस्य प्रयुक्तमेव जन्मेत्य- स्याभावनिश्चयात् ।

 किञ्च विषयज्ञानवदित्यत्र ज्ञानशब्देन चैतन्यं विवक्ष्यते उत वृत्तिः । नाद्यः । साध्यवैकल्यापातात् चैतन्यस्य जन्मवैधुर्यात् । न द्वितीयः । साधनवैकल्यप्रसङ्गात् । किञ्च आत्मा न स्वातिरि- कसंविदधीनव्यवहारविषयः संविद्रूपत्वात्संविद्वदित्यनुमानंपराह-



 ४९