पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८७
अविद्यायां प्रमाणोपन्यासः ।


 ब्रह्मप्रतिपत्तिप्रसक्तेः प्रतिबन्धकान्तरानिरूपणाञ्चाज्ञानमेव तत् । प्रतिबन्धकान्तरं हि किं मिथ्यज्ञानमुत नमस्कार आहो ग्रहणाभावः अथ वा कर्म ? नाद्यः । मुषुप्तौ मिथ्याज्ञानाभावेन ब्रह्मरूपप्रतिपत्तिप्रसङ्गात् । सुषुप्तेः सकलज्ञानोपरमस्वरूपत्वात् नद्वितीयः, रूप्यभ्रमसंस्कारे सत्यपि शुक्तिबोदर्शनेन संस्कारस्य प्रतिपत्त्यप्रतिबन्धकत्वात् । तृतीये किमागन्तुकग्रहणाभावः प्रति वन्धक उत स्वरूपग्रहणाभावः ? नाद्यः कदाचित्कग्रहणाभावस्य स्वतःसिद्धविरोधित्वाभावात् । नद्वितीयः ग्रहणस्य स्वरूपत्वेन तदभावानुपपत्तेः । नापि चतुर्थः । साक्षात्कारानन्तरमपि ब्रह्मस्व- रूपानवभासप्रसङ्गात् ज्ञानेन कर्मनिवृत्त्यसम्भवात् ।

 तस्मान्मिथ्याज्ञानतत्संस्काराग्रहणकर्मभ्योऽन्यदनवासानिमि- त्तं मिथ्या वस्तु सिद्धं तदेवाविद्या । न तं विदाथेति यूयं तमी- श्वरं न विदाथ तस्मात्तत्प्रतिपत्त्युपायं कुरुत । न चेश्वरो नास्ती- त्यत आहः ये इमाः प्रज; जजान जनितवान् कार्यलिङ्गेनेश्वर- सिद्धेः । परमाणुवदयोग्यत्वादेवेश्वराग्रहणमित्यत आह । अन्तरं बभूवेति युष्माकं ब्रह्मणश्चान्तरं बभुवान्तरकृत्तौवाप्रातिपत्तिर्नायो- ग्यत्वकृतेत्यर्थः । तच्च देशादिविलक्षणमित्याहान्यदिति । किं तद- न्तरं किञ्च तत्कृत्यमित्यत्राह । नीहारेणेति प्रावृतत्वं चाच्छन्नपरि- पूर्णस्वरूपता । अतएव विक्षेपविषया इत्याह । जल्प्या इति मनु- व्योऽहं ब्राह्मणोऽहमित्याद्यध्याप्तविषमा इत्यर्थः । अमून्प्राणान्त- पंयन्तीत्यसुतृपः उक्थशब्देन कर्माभिधानद्वारा कर्मोपलक्षित तस्मिन् शिष्यन्ते विधिवाक्थैर्ये पुमांसस्ते तथोक्ताः चरान्ति संसार- चक्रे भ्रमन्तीत्यर्थः । ।

 ब्रह्मणः आत्मत्वात्तत्र प्रसिद्धस्य नीहारस्याच्छादकत्वानुपप- तेराच्छदकत्वसाम्पादज्ञानस्यैव नीहारशब्देनाभिधानात् । अवि- द्यायामन्तरे इत्यस्यायमर्थः । अविद्यामोहितास्संतो ऽन्यदैहिकपु-