रुषार्थव्यतिरिक्तं ब्रह्माख्यश्रेयो न जानन्तीति अज्ञानेनावृत्तं ज्ञान- शब्देन स्वरूपज्ञानं गृह्यते ।
श्रुत्यर्थापत्तिरपि ‘विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुतिभ्यः श्रू- यमाणा ज्ञानाद्बन्धनिवृत्तिर्बन्धस्य परमार्थत्वेनानुपपद्यमानस्यावि- यात्मकत्वं कल्पयति तद्धेतुतयाऽविद्यां कल्पयतीति चेन्न । प्रमाणॊ- पन्यासस्य साक्षिमात्रसिद्धेऽप्य भावत्वानिवृत्यर्थत्वादलं प्रसङ्गागतेन ? प्रमाणॊपन्यासश्चाविद्यायां साक्षिमात्रगम्यायां तस्याभावत्वभ्रम- निवृत्यर्थं घटादिवत् । अज्ञानस्य प्रामाणिकत्वे द्वेषे किं बीजम् । प्रामाणिकस्यापि धटदेर्मुद्गरनिवृत्तिदर्शनाज्ज्ञानात्तन्निवृत्तिसम्भवा- तु । प्रमाणपवृत्तिरज्ञातेऽर्थे ज्ञाते त्वज्ञानकृताचरणाभावात्प्रमाणवे- द्यता न स्वीक्रियते । आत्मातिरिक्ताशेषत्वे सति प्रियत्वं परम- प्रेमापदत्वं तच्चात्मनः सुखरूपत्वं विनाऽनुपपन्नम् । तञ्च मा न भूवं किन्तु भूयासमिति प्रतीत्या सिद्धम् । अहमिति प्रत्ययस्य देहादि- सम्भिन्नामावभासत या भूयासं मा न भूवमति कामनायाः दुःख- हेतुप्राणवियोगाभावविषयत्वासिद्धेः ।
न च तथापि सा नात्मनः सुखरूपतामन्तरेण । न हि दुःखे तत्साधने वा मत्प्रतिकूलमेतदित्यनुभवमन्तरा तदभावे कामना, न चात्मनः सुखरूपत्वमन्तरेण दुःखतत्साधनयोरात्मप्रतिकूल भाव- इति शङ्क्य म् । द्वेष्यत्वरूपप्रतिकूलत्वस्य स्ववृत्तिदुःखस्वरूप त्वमात्रमितिकवनात्मनः सुखरूपतामन्तरेणापि स्ववृत्तेः [शी- तपत्रानपृष्ठे]
तत्वात्मनो निरतिशयनित्यसुखरूपत्वं न सम्भवति साधनता- रतम्यरूपसातिशयत्वस्यानियत्वस्य सर्वजनीनत्वादात्मनश्च निर- तिशयत्वान्नियत्वाच्च । न च स्वारसिकेच्छारूपपरमप्रेमास्पद- त्वरूपसुखलक्षणसवात्सुखरूपत्वे सिद्धे मनोवृत्तिवैशद्यप्रयुक्तं ता- रतम्यं नित्यत्वं चेति वाच्यम् । सिद्धे इच्छाविरहात् ।