पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीकसाङ्ख्यतत्त्वकौमुद्यासू ।

बह्वीः प्रजाः सृजमानां नमामः ॥
अजा ये ता जुषमाणां भजन्ते
जहत्येनां भुक्तभोगां नुमस्नान् ॥ १ ॥

र्लक्षणैवेति सांप्रतम् । सादृश्यस्य शाब्दबोधे भानाभावप्रसङ्गात् । शक्यसम्बन्धस्य स्वोपस्थापकत्वाभावात् सम्बन्धिभानार्थमेव तस्य वृत्तित्वाभ्युपगमात् । तस्माल्लक्षणवैलक्षण्यादतिरिक्तैव वृतिर्गौणीति चतुरस्रमित्याहुः ।

तन्न । तस्या वृत्तिद्वयात्मकत्वेऽपि साक्षात्परम्परासाधारण्येन शक्यसम्बन्धवत्त्वरूपलक्षणात्वोपपत्तावतिरिक्तकल्पनासम्भवात् ।

तस्या एव कार्यमात्रकारणत्वलाभाय प्रजां विशिनष्टि *बर्ह्वारिति । प्रजायन्ते इति प्रजा महत्तत्त्वादयस्ताः सृजमानां कुर्वाणाम् । परिणामशीलेितालाभाय सृजन्तीमिति विहाय तथाभिधानम्, तल्लाभश्च “ताच्छील्यवयोवचनशक्तिषु चानश्" इति सूत्रेण चानश्- विधानात् । अजो ह्येक इति हित्वा अजा ये इति कथनं तु पुरुषव- हुत्वस्य प्रमाणसिद्धत्वाद्वेदे अज इति सामान्याभिप्रायकमिति बोधनाय । जुषमाणामिति हित्वा स्वकार्योपभोगादिभिः सेवमानापरपर्यायजुषमाणामिति कथनं तु पुरुषस्याकर्तृतातच्छेषितालाभाय । अजा ये इत्यस्य तान्नुम इत्यत्रान्वयः । विघ्नाधिकाशङ्कया मङ्गलाधिक्यामेिति ।

ननु प्रकृतेर्नमस्कार्यतावच्छेदकजगदुपादानत्वरूपसत्त्वेऽपि जीवानां तादृशरूपाभावात्कथं ते नमस्या इति चेन्न । तेषामपि भोक्तृत्वेन प्रकृतिं प्रति शेषित्वस्य तादृशस्य सत्त्वात् । तान्नुम इत्यत्र स्वावधिकोत्कर्षवत्तया ज्ञापनं नमस्कारः स एव नम्धात्वर्थः । तदेकदेशज्ञानान्वयिविषयित्वं द्वितीयार्थः । तथाच ग्रन्थकृदवधि- कोत्कर्षवत्तया तादृशाजविषयकज्ञानानुलकूव्यापारवान्ग्रन्थकर्तेत्यन्वयबोधः ।