कल्पनमित्यादि तदसत् । प्रतिपुरुषसुषुप्त्यानन्त्यादनन्तषु तदा
द्यक्षणेषु अनन्तानां सुखानां जन्मनाशादिकल्पने गौरवात् ए-.
कात्मकल्पनस्यैवोचित्यात् । ननु अहमर्थस्ये वर्तमानत्वेन सौषुप्त-
सुखसाक्षिणोरपि नित्यतया तदविशेषात्कथं स्मृतिविषयत्वमिति
चेत् । मनोलयोपलक्षितमृलाज्ञानावस्थारूपसुषुप्त्यवस्थाया अनीत-
वेन तद्विशिष्टरूपेण सुखादीनामप्यतीतत्वात् । अज्ञानानामपि स-
र्वेषामतीतत्वाभावेऽपि जागरादिक्षणे यद्विषयकं ज्ञानमुत्पन्नं
तद्विषयकाज्ञानस्य नष्टत्वात्तस्यैव स्मर्यमाणत्वेऽपि तत्संवलि-
तानामज्ञानान्तराणामपि न किंचिदवेदिषमित्यविशेषेण स्मर्य-
माणवदभिलापों वनं कुसुमितभितिवत् । दुःख प्रतिकूल्य-
सम्भवात् । न हि सुखविरोधित्वेन दुःखपातिकूल्य तथा सति
सुखदुःखयोर्विरोधस्य स्वरूप मात्रनिबन्धनतया सिद्धान्तिमते वै-
रिदुःखेऽपि सुखरूपात्मविरोधित्वेन द्वेषप्रसङ्गात् । न च न तयोः
स्वरूपनिवन्धनो विरोधो येन वैरिदुःखेऽपि द्वेषप्रसङ्गः किन्तु सा-
मानाधिकरण्येनाधाराधेयभावेन वेति युक्तं आद्ये दुःखप्रातिकूल्या-
नुरोधेनात्मनः सुखरूपतोपपादनायोगः समानाधिकरण्याभावात् ।
न द्वितीयः । लौकिकसुखदुःखयोरेकदैकोषाधावण्यवस्थानापत्तिः ।
विरोधिनिमित्ताधाराधेयभावाभावात् । न च सुखस्यात्मशेषतया
सुखरूपत्वमनुमीयताम् । दुःखस्यापि शेषतयैव द्वेष्यतयात्मनो दुःख- रूपताया अपि प्रसंगान्न चात्मनो दुःखरूपत्वे दुःखस्याप्यात्मप्रति कूल्याभावादद्वेष्यत्वप्रसङ्ग इति शङ्क्य्म् । दुःखस्य स्ववृत्तिदुःखत्वेनैव द्वेष्यतयात्मनो दुःखरूपत्वे सुखरूपत्वे तदुभयभिन्नत्वरूपत्वे वा तदन पायादिति तत्र यद्यात्मानन्दरूपपो न स्यात्तदाभिव्यक्तिविशेष रूपात्मावाप्तिरूपान्तःकरणपरिणामविशेषे आनन्दावाप्त्यर्थिनः का मना न स्यात् । यद्यात्मा दुःखरूपः स्यात्तदा सुखमहमस्वाप्प्तमिति परामशों न स्यादित्यर्थः ।