पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

तया प्रकाशमानसाक्षिस्वरूपसुखप्रकाशसम्भवत् । न च साक्षि- स्फुरणेऽपि यथा जागरिते न स्वरूपसुखानुभवस्तथा सुषुप्तावपीति युक्तम् । जागरिते विक्षेपेणाभिभूततयाऽप्रकाशोपपत्तेः । निरुपाधि- प्रेमास्पदत्वानुपपत्त्या तत्स्वरूपसुखावभाससत्त्वात् ।।

 अथ सुषुप्तोत्थितस्य सुखमस्वाप्ममितिवन्निर्दुःखमस्वाप्समिति दुःखाभावपरामर्शोऽपि दृश्यते स कथमुपपादनीयः प्रतियोगिस्मर- णाभावेन सुषुप्तौ दुःखाभावानुभवासम्भवादिति चेन्न । पूर्णानन्दानु भव तिवन्धकाज्ञानावरणानुभवमादायोपपत्तेः । यत्तावदुक्तं स्व- प्नान्ते जागरान्ते वा चर्मिप्रतियोगिज्ञानसम्भवान्न सुषुप्तौ दुःखाभा- वाद्यनुभवासम्भव इति तत्तथैव । सुषुप्तौ प्राणस्थातिर्न । तत्र मानं यदा सुप्तः न कञ्चन स्वप्नं पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं चाक्सर्वैनामभिः सहायेतीत्यादि । एवमेतस्मादात्मनः सर्वे प्राणा इति । क्रमिकाणि ज्ञानानि क्रमकारिकरणपूर्वकाणि क्रमवत्कार्यत्वा- त् क्रमकारि कुठारमाध्यद्वैधीभाववदिति । न च ज्ञानादयः साश्रया गुणत्वात्सम्मतवादित्याश्रयान्तरस्याभावाज्ज्ञानाश्रयत्वम् । तथात्मनि प्रतीयमानकर्तृत्वानिर्वाहकत्वेन निर्भेदे भेदहेतुत्वेन उत्क्रान्तिश- रीरन्दरप्रेवशादिनिर्वाहकत्वेन च तदेष्टव्यमिति आत्माश्रयत्वेन कर्तृत्वादेः भेदस्य च स्वाभाविकत्वाद्व्यापकस्य सुकृतदुष्कृतानुरो- धेन शरीरे निष्पन्ने तेन भोजकादृष्टवदात्मसंयोगरूपवृत्तिलाभ- सम्भवात् । बुद्धिर्द्रव्यं परिमाणवत्त्वात्सम्मतवदिति । न च हेत्व- सिद्धिः ।

 "बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः"

 इति । आत्मगतपरिमाणेन महातपि । सधौः स्वप्नो भूत्वेमं लोकमनुसंचरतीति । कस्मिन्नुत्क्रान्ते उत्क्रान्तो भविष्यामीति प्राणस्यैवोपाधित्वमिति । प्राणव्यापारस्यान्तःकरणाधीनत्वेन