प्राणस्यान्तःकरणांशत्वात् । आत्मनि कर्तृत्वादि मिथ्या क्लृपप्रतीति-
सत्ताकारणशून्यत्वात् स्फटकलोहित्यादिवदिति। न च दृष्टान्ते सा-
ध्य वैकल्यम् । पारमार्थिंकलौहित्यस्य सत्ताप्रतीत्योर न्वयव्यतिरेका-
भ्यां क्लुप्तं यत्कारणं तदभावेन तत्र मिथ्यात्वस्यैव सिध्देः । कामः
संकल्पो विचिकित्साश्रद्धा ऽश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वं मन
एवेति श्रुतौ धीमेन इति सामानाधिकरण्येन मनसो धीशद्भवाच्यज्ञा-
नोपादानत्वावगमविरोधश्च । न च दर्शनकारणत्वमादायैव तत्स्या-
दिति वाच्यम् । मृद्धट इतिवद् दंडो घट इयदर्शनात् । एतेन व्या
संगान्यथानुपपत्या वाह्यज्ञाने मनः करणतया स्वीकार्यमिति परा-
स्तम् । नैयायिका अपि धारावाहिकज्ञानयोगपद्यनिरासायात्मनि
क्रमजननशोक्तेरवश्यवाच्यत्वे तयैव ज्ञानक्रमोत्पादनिर्वाहे तत्कल्पन-
वैयर्थ्यात् । नन्वेवं सति रूपज्ञानकाले स्पर्शज्ञानापत्तिः । न च
त्वत्पन्ने मनसश्चक्षुःसंयोगकाले स्पर्शनसंयोग एवं कुतो न स्यादिति
वाच्यम् । अदृष्टस्य नियामकत्वादिति चेन्न । प्रकृतेऽपि तुल्यत्वा-
दित्यन्यत्र विस्तर इति । तस्मान्मनो नेंद्रियामति वेदान्तिन इति ।
तन्न । इन्द्रियाणां मनश्चास्मीति भगवद् चनस्य मनस इंद्रियत्वे मानत्वात् । न च मनःषष्ठानीन्द्रियाणीतिवन्मनसस्सत्वे मानं न त्विन्द्रियत्वेऽपति वाच्यम् । निर्धारणषष्ठ्यनुपपत्तेः । तथा हि । समान जातीयेषु गुणक्रियादिभिरेकदेशस्य पृथक्करणं निर्धारणम् । तत्र सजातीयस्य गवां कृष्णा सम्पन्नक्षीरेत्यादौ निर्धार्यतावच्छे- दकव्यापकरूपावछिन्नस्य गोपदेनोपस्थापितत्वात् । निर्धार्थस्य च कृष्णापदेन निर्धारकस्य च सम्पन्नक्षीति पदेनोपस्थितत्वान्निर्धा- रणप्रयोजकतादात्म्यमेव षष्ठ्यर्थो वाच्यः । तथा च गोतादात्म्यवतीं कृष्णा सम्पन्नक्षीरेति बोधः । गवां गौसम्पन्नक्षीरेत्यस्य वारणाय कृष्णापदस्य कृष्णाभिन्ने सम्पन्नक्षीरापदस्य सम्पन्नक्षीराभिन्ने लक्षणाऽभ्युपेया । तेन गोतादात्म्यवती कृष्णान्या सम्पन्नक्षीरान्ये-
५०