त्यपि बोधः । युगपद्वृत्तिद्वयविरोधानङ्गकाराञ्चैकदा शक्तिलक्षणो- प्रस्थापितार्थान्वयबोधः । गवां गौः सम्पन्नक्षीरेति तु न स्यात्तत्र गोतादात्म्यवती गोभिन्नेति बोधासम्भवात् । अत्र च कृष्णाभिन्न- त्वावच्छेदेन सम्पन्नक्षीराभिन्नान्वयो बोध्यस्तेन गवामियं सम्पन्न क्षीरेत्यस्य वारणं तत्र गवाभिन्नैतद्भिन्नत्वाच्छेदेन सम्पन्नक्षीरान्य- त्वाभावात् व्यक्त्यन्तरस्यापि सम्पन्नक्षीरत्वात् ।।
एवं गवाभिन्न कृष्णात्वावच्छेदेन सम्पन्नक्षीराया अन्वयो बोध्यक्तेन गवां शुक्लान्या सम्पन्नक्षीरेति न प्रयोगः । एवं नराणां भीमः प्रचुरं भुङ्क्ते इत्यादौ नरतादात्म्यवान् भीमः प्रचुरं भुङ्क्ते । नरतादात्म्यवान्भीमभिन्नः प्रचुरभोक्तृत्वाभाववानिति बोधः । तथा चेन्द्रियाणां मनश्चास्मीत्यत्रे न्द्रियतादात्म्यवन्मनः भगवदभि- न्नम् । इन्द्रियतादात्म्यवन्मनोभिन्नं भगवद्भिन्नमिति बोधः । न च भूतानामस्मि चतनेत्यत्र चतनाया भूततादात्म्याभावेऽपि नि- र्धारणषष्ठीवत्प्रकृतेऽपि सा स्यादिति वाच्यम् । साभासान्तःकरण- वृत्तेश्चेतनापदेन विवक्षितत्वात् । न चैवं चेतनापदस्य गौणत्वाप- त्तिरिति वाच्यम् । अनुभवोपक्रमानुरोधन गौणत्वस्यावश्यकत्वात् ।
न च मनस इन्द्रियत्वे कामः सङ्कल्प इत्यादि श्रुतिविरोध इति वाच्यम् । धीपदयात्र महत्तवातिरिक्तज्ञानरूपपरिणामपर- वात् । अन्यथा महत्त्तत्त्वकार्यत्वं मनसो न स्यात् । अहङ्कारमनसो- स्तत्वज्ञानेन लये स्मरणदर्शनेन सत्वपुरुषान्यताख्यातिरूपध्याना- ख्य श्रेष्टवृत्त्या च महत्तत्त्वस्य पृथगङ्गीकारावश्यकत्वात् ।
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्ठेत तामाहुः परमाङ्गतिम् ॥
तस्मिन्पुरुषाश्चतुर्दश जायंत एका कन्या दशेन्द्रियाणि मन ए- कादशं चेतो द्वादशमहङ्कारस्त्रयोदशः प्राणश्चतुर्दशात्मा पञ्च- दशी बुद्धिः ।