तदेवमेकादशेन्द्रियाणि स्वरूपत उक्त्वा दशानाम-: प्यसाधारणीवृत्तीराहे -
शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥
बुद्धीन्द्रियाणां सम्मुग्धवस्तुदर्शनमालोचनमुक्तम् ।
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥
इत्यादौ मनसो बुद्धेः पृथग्ग्रहणाञ्च । न च मनसः ज्ञानोपा- दानत्वे तत्प्रति करणत्वं न स्यादिति वाच्यम् । चेतननिष्ठमन:प- रिणामप्रतिबिम्बस्य प्रमात्वाङ्गीकारेण तं प्रति मनःपरिणामस्य मुख्यकारणत्वाङ्गीकारात् । यथा चैतत्तथोक्तं पुरस्तात् ॥ २७ ॥
उपजीकत्वसङ्गतिं सूचयन्नार्यामवतारयति । तदेवमित्यादि- ना । पञ्चानामित्यस्यार्थमाह । बुद्वीन्द्रियाणामिति । आ- लोचनपदार्थस्तूक्त एवेत्याइ । सम्मुग्धेति ।।
कण्ठेति । न च दृश्यमानकण्ठादय एव करणानि तदति- रिक्त कर्मेन्द्रिये मानाभाव इति वाच्यम् । वचनादयः सकरणाः क्रियात्वाद्दर्शनवदित्यादिमानात् ।।
न च दृश्यमानकण्ठादिना सिद्धसाधनम् । सर्वाङ्गानां साम्येन विलक्षणनिमित्तत्वासम्भवे चक्षुरादिवद्विलक्षणकरणसिद्धेः ।
न च शुक्रसूत्रसिङ्घाणोत्सर्गनिमित्तं तत्तदिन्द्रियमध्यभ्युपेय म् । उपस्थेन्द्रियेणैव शुक्रसूत्रोत्सर्गसम्भवात् । सिङ्घाणस्य मुखे- नापि सम्भवेन त्यागस्यानियततयेन्द्रियान्तरकल्पकत्वासम्भवा- न्नियतस्यैव कल्पकत्वात् ।