पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९७
अन्तःकरणत्रयस्य द्विविधववृत्तिनिरूपणम् ।


ङ्कारस्याभिमानः सङ्कल्पे मनसो वृत्तिव्यपारः ।

 वृत्तिदैविध्यं साधारणासाधारणत्वाभ्यामाह-सैषा भवत्यसामान्या' । असाधारणी । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च” । सामान्य चासौ करणवृत्तिश्चे ति । त्रयाणामपि करणानां पञ्च वायवो जीवनं वृत्तिः, तद्भावे भावात् तदभावे चाभावात् । तत्र प्राणो नासा- ग्रहृन्नाभिपादाङ्गुष्ठवृत्तिः, अपानः कृकाटिकापृष्ठपादपायू- पस्थयार्श्ववृत्तिः, समानो हृत्राभिसर्वसन्धिवृत्तिः,उदानो- हृत्कण्ठतालुमूर्वभ्रूमध्यवृत्तिः, व्यानस्त्वग्वृत्तरिति पञ्च वायचः ॥ २९ ॥




 सामान्यामाई । सामान्यति । एतद्वृत्तेर्विशेषमाह । त्रया- णामपीत्यादि । जीवनं वृत्तिः जीवनहेतुपरिणामाः पञ्च वायव इत्यर्थः ।।

 अन्ये तु इन्द्रिय व्यापारलक्षणा वृत्तिंरिह नास्तीति वृत्तिशब्दो जीवनपरतया व्याख्यात इत्याहुः

 प्राणादिव्यापारसत्त्वे सर्वकरणव्यापारसत्त्वं जीवनं तदभावे तदभाव इत्याह । तद्भावे इति

 ननु प्राणादीनां भेदकाभावात्कथं पञ्चत्वमित्यत आह । तत्रेति । कृकाटिका । कंठदेशः । पार्षिणः। पादस्य पृष्ठभागः । पार्श्वेति पाठान्तरम् । व्यानः सर्वशरीरग इति तु न सम्भवति । तस्य सर्वशरीरगतत्वे स्थानभेदेन तस्यैव संज्ञान्तरापत्तेः ।

 ननु प्राणादीनामन्तःकरणत्रयवृत्तित्वाङ्गीकारे "प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवे" ति बृहदारण्यके वृत्तिमतः प्राणस्य निर्देशानुपपत्तिः । न च प्राणशब्देनानशब्दस्य पौनरुक्तिरिति वाच्यम् । निरुपसर्गानशब्दस्य सामान्यदेहचेष्टा- भिसम्बन्धिसामान्यवृत्तिपरत्वात् । अथातो दैवः परिमर एतद्वै ब्रह्म-