पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


दीप्यते यदग्निज्वलत्यथैतन्म्रियते यन्न दृश्यते तस्य चन्द्रमसमेव तेजा गच्छति वायुं प्राण इनि कौषीतकीये । प्राणः स वायुरिति श्रुत्यन्तरं च विरुध्येतेति चैन्न । विज्ञानं यज्ञं तनुते कर्माणि तनुते ऽपि च । तस्य हैतस्य हृदयस्याग्रं प्रद्योतते नैष आत्मा निष्क्राम- ति चक्षुष्टो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं-सर्वे प्रणा अनुक्रमन्ति । सवि- ज्ञानो भवति सविज्ञानमेवान्ववाक्रामति तं विद्याकर्मणी समन्वार- भेत पूर्वप्रज्ञा चैत्यादिश्रुत्या विज्ञानाख्यस्य बुद्धेर्निखिलकर्महेतु- त्वप्रतिपादनेन प्राणपदस्य वायुपदस्य च क्रियासाधर्म्येण वि- ज्ञानपरत्वात् उपसंहृतसर्वकरणग्रामस्य हृदयस्य हृदयच्छिद्रस्याग्रं नाडीमुखं निर्गमनद्वारं प्रद्योतते आत्मज्योतिषाऽवभासते तेनैवा- त्मज्योतिःप्रद्योतेन हृदयाग्रेण आत्मनो निर्गमनं सोपाधेरेव । स- मानः सन्नुभौ लोकानुसञ्चरतति श्रुतेः । चक्षुष्टो वेत्यादि यथा कर्म ज्ञानं वा लोकप्राप्तिनिमित्तं तथा अनुत्क्रामतीत्यादौ तु जीवाद्देः प्राधान्याभिप्रायेणानुशब्दप्रयोगो ने क्रमाभिप्रायेण देशकालभेदाभावात् । सविज्ञान भवति । कर्मवशात्तूद्भाव्यमा नैनान्तःकरणं वृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सह भवति । सविज्ञानमेव विशेषविज्ञानोद्भासितमगन्तव्यम् । अन्ववा- क्रामत्यनुगच्छतीति श्रुत्यर्थः ।।

 यत्तु ब्रह्ममीमामाभाष्ये तथा प्राणस्य श्रेष्ठत्वाद्युद्धोषणं गुण- भावोपगमश्च यस्तं प्रति वागादीनां न करणवृत्तिमावे प्राणेऽव कल्पते तस्मादन्यो वायुविक्रियाभ्यां प्राण इति । तन्न । अनुक्तोपा- लम्भात् । अन्तःकरणत्रयस्यैव प्राणादिवृत्तिभेदाङ्गीकारात् । करणपदस्येन्द्रियपरत्वे सैषेत्यादिना वृत्तिद्वौविध्यकथनानुपपत्तेः ।

 अन्ये तु मुखनासिकाभ्यां निष्क्रमणप्रवेशात्प्राणः । नाभैर- धस्ताद्गमनतन्मलाद्यपनयनादपानः । विष्वकू गमनवानुन्मीलना-