तेषां स्वापेक्षयोत्कर्षवत्वसुपपादयितुं यत्पदार्थं विशिनष्टिः
- जहर्तीत्यादिना । भुक्तो भोगो यया मा भुक्तभोगा ताम्, इत्यत्र ।
कर्तृत्वं तृतीयार्थः । भोगः सुखादिग्रहणम् । ग्रहणं च तदाकारता । सा च कूटस्थचितौ बुद्धेरर्थकारवत्परिणामो न सम्भवतीत्यगत्या प्रतिबिम्बरूपतायां पर्यवस्यति । तथाच सुखादिरूपबुद्धिवृत्तिप्रतिविम्बः कूटस्थचितौ भोगः । तस्मिन् भुक्त्वत्म् अतीतकालोत्पत्तिकत्वम्, अत्रत्यधात्वर्थस्य भोगपदेनैव लाभे विवक्षाऽसम्भवात् । तथाच अतीतकालोत्पत्तिकोक्तभोगानुकूलसुखादिपरिणामवतीमित्यर्थः ।
ननु चिन्निष्टसुखादिप्रतिबिम्बस्य भोगत्वे 'चिदवसानो-
भोगः’ इति ( सां० सू० अ० १ सू० १०४ ) सूत्रविरोधः ।
सूत्रं तु-पुरुषरूपे चैतन्ये पर्यवसानं समाप्तिः, विचार्यमाणे
तद्रूपता यस्य सः; अवसानपदेन परिणामित्वरूपधर्मादिनिरासः,
इत्येवं व्याख्येयमिति चेत्, न । सुखाद्युपरक्तवृत्तिप्रति-
बिम्बावच्छिन्नस्वरूपचेतन्यरूपभावस्य सुखादिप्रतिबिम्ब-
च्छिन्नस्वरूपचैतन्यरूपभानस्य वा भोगपदेन विवक्षितत्वात् ।
अत एव पुरुषस्वरूपत्वेन तस्य नित्यत्वंऽपि अवच्छिन्नरूपेण
कार्यतया प्रकृतेस्तत्कर्तृत्वोपपत्तिः । एवं पुरुपस्य बुद्धिगत-
प्रतिबिम्बेन भास्यमानसुखाद्याश्रयत्वरूपभोक्तृत्वोपपत्तिरपि ।
यत्तु- भोगः सुखदुःखे । तथा च भुक्तः साअक्षात्कृतः, अतीत- कालोत्त्पत्तिकसाक्षात्कारविषयः भोगः सुखदुःखे यस्या यस्यां वा सा । अस्मिन्पक्षे ‘ज्ञातो घटः’ ‘कृतो घटः' इत्यादि वद्भोगे भुजिधातुकर्मत्वलाभेन भुजिधातोर्नानर्थकत्वमिति । तन्न । त्वन्मते भुजेः साक्षात्कारार्थत्वाभावात्, उक्तसूत्रविरोधाच्च । ‘सर्वं प्रत्युपभोगशम्’ (सां० का० ३७) इत्यादौ वक्ष्यमांण- 'सुखदुःखानुभवो हि भोगः' इति मिश्रोक्तिविरोधाच्च । 'सुखं दुःखं विषयान्वा भुञ्जे' इत्यादिसर्वजनीनानुभवविरोधाच्च ।