पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

भावसामानाधिकरण्योभयसम्बन्धेन जातिविशिष्टजातित्वावच्छेदेन स्वसमानाधिकरणाभावप्रतियोगित्वाभावनियमभङ्गप्रसङ्ग इति तन्न। तादृशनियमकल्पने प्रयोजनाभावात् । जातिसार्ङ्क्या निरूपणाञ्च ।

 न च जात्यः परस्परात्यन्ताभावसंमानाधिकरणत्वे सति एका- धिकरणवृत्तित्वं जातिसार्ङ्क्यमितिवाच्यम् । जात्योस्तथावस्याप्र सिद्धत्वात् । ।

 न च जात्योपाध्योः परस्परात्यन्ताभावसमानाधिकरणत्वे सत्येकाधिकरणवृत्तित्वम् । जातिमात्रोछेदांपत्तेः । द्रव्यत्वादेरपि पृथिवीगुणान्यतरत्वादिकमादाय यथोक्तसाङ्कर्यसम्भवात् । पर- स्परत्वस्य दुर्वचत्वाञ्च । तद्भिन्नत्वे सति तद्भिन्नत्वरूपपरस्परत्वनिर्व- चनस्याननुगतत्वाजातिमात्रोच्छेदापत्तिदोषानिवृत्तेः ।।

 अथ स्वसमानाधिकरणत्वे सति स्वसमानाधिकरणान्योन्या- भावप्रतियोगितावछेदिका या जातिस्तत्समानाधिकरणान्यो- न्याभावप्रतियोगितावच्छेदकत्वं जातिसाङ्कर्यम् । स्वपदद्वयं स- ङ्कीर्णत्वेनाबिमतध्रमपरम् । तञ्च भूतत्वेऽपि तस्य स्वसमानाधिक- रणान्योन्याभावप्रतियोगितावच्छेदकमूर्त्तत्वरूपजातेरधिकरणे म- नास वर्तते योऽन्योन्याभावस्तत्प्रतियोगितावच्छेदकत्वात् । जा- तित्वोपादानाञ्चान्यतरत्वादकमादाय न जातिमात्रोच्छेदः । स्व- सामानाधिकरण्ये स्वाधिकरणत्वं चरमप्रतियोगितावच्छेदकत्वं च समवायविशेषणतातिरिक्तसम्बन्धावच्छिन्नं ग्राह्यम् । अन्यथा सम- वायावच्छिन्नत्वस्योक्तौ प्रत्यक्षत्वानुमितित्वादिना सङ्कीर्णतया भ्रमत्वं चाक्षुषत्वादिना सङ्कीर्णतया च संशयत्वं न जातिरिति प्रामाणिकानां प्रवादो व्याहन्येत । भ्रमत्वादेः स्वमते समवायेना- वृत्तेः । विशेषणताविशेषावच्छिन्नत्वौक्तौ तु भूतत्वादेरनेम हेतुना जातित्वाभावसाधने सन्दिग्धासिद्ध्यापत्तेः । तस्य जातित्ववादिना तेन सम्बन्धेन वृत्तेरनभ्युपगमात् । प्रतियोगितावच्छेदकत्वं स्व-