प्रलापत्वापत्तेः । स्वपदयस्य जातिपरत्वे उपाधिपरत्वे वोक्तदो- षापत्तेः । अभिमतधर्मपरत्वस्याप्युक्तविकल्पग्रासात् । किञ्चाभिम- तघटकभ्रमरूपाभिमानस्य विशेषणत्वे यत्र न तदभिमानस्तत्राव्याप्तिः।
न च सर्वत्र नियमेनाभिमानकल्पनाच दोष इति वाच्यम् । विदुषामसम्भवाः । उपलक्षणत्वे उपलक्ष्यतावच्छदकाज्ञाने लक्षणस्य दुर्ज्ञेयत्वापत्तिः । तज्ज्ञाने च तेनैव निर्वाहे तस्य वैयथ्यापात्तिरिति ।
यत्तु सर्वाः जातीः प्रातिस्विकरूपेणोपादाय तत्त्ज्जातिमत्तद- न्यवृत्तित्वे सति तत्तजातिमन्निष्टान्योन्याभावप्रतियोगितावच्छे- दकत्वं तत्तज्जात्या साड्कर्यं वक्तव्यम् । अत्र वृत्तित्वमवच्छेदकत्वं च समवायविशेषणतातिरिक्तसम्बन्धाविच्छिन्नं ग्राह्यम् । तञ्च सत्ताद्र- व्यवस्थले पृथिवीसामान्यान्यतरत्वादी पृथिवीसामान्यान्यतरमिति प्रमानिरूपितविशेष्यताव्यक्तौ च प्रसिद्धम् । इत्थं च भूतत्वादौ मूर्त्ततदन्यवृत्तित्वे सति मूर्त्तनिष्ठान्योन्याभावप्रतियोगितावच्छेद- कत्वादिना जातित्वाभावः साधनीयः । पृथिवीगगनान्यतर- त्वादिकं पृथिवीगगनान्यतरमिति प्रमानिरूपितविशेष्यताब्यक्तिश्च- दृष्टान्त प्रतियोगितावच्छेदकत्वं च स्वरूपतो व्यक्तिद्वयावृत्ति वक्त व्यम् । तेन भूतत्वादौ उक्तक्रमेण जातिवाभावसाधने पृथिव्यन्य- त्वविशिष्टद्रव्यत्वादौ न व्यभिचारस्तस्यापि पृथिव्यात्मकमूर्तनि- ष्ठान्योन्याभावीय व्यक्तिद्वयोवृत्तिप्रतियोगितावच्छेदकतावत्त्वात् । विशिष्टस्यानतिरिक्तत्वेन च तत्र जातिवाभावविरहात् । न वा द्रव्यत्वादावपि पृथिवीत्वादिना सङ्कीर्णतापत्तिः । एकत्र द्वयमिति न्यायेन स्वरूपतो द्रव्यत्वजलत्वोभयाद्यवच्छिन्नान्योन्याभावस्य पृथिव्यादौ सवादिति ।
तन्न । सर्वजातीनां प्रातिस्विकरूपेण दुर्ज्ञेयतया लक्षणस्य दुर्ज्ञेयत्वापत्तेरननुगतत्वाञ्च । किञ्च भूतत्वादावुक्तक्रमेण जाति- वाभाचसाधने पराभ्युपगताखण्डोपाधित्वेन पक्षत्वे अप्रसिद्धिः ।