पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०३
वृत्तीनां यौगपद्यायौगपद्यनिरूपणम् ।


स्वमतसिद्धात्मान्यत्वविशिष्टविशेषगुणवत्वरूप भूतत्वेन पक्षत्वे सिद्धसाधनम् । स्वरूपासिद्धिश्च । विशेषगुणस्य प्रतिव्यक्ति भि- न्नतया कस्यापि मुर्त्ततदितरवृत्तित्वविरहाज्जात्यखण्डोपाध्यतिरि- क्तस्य पदार्थस्य स्वरूपतोऽवच्छेदकत्वानभ्युपगमेन स्वरूपतन्यो- न्याभावप्रतियोगितावच्छेदकत्वावरहाञ्च । अखण्डोपाधित्व च विशेषणताविशेषेण वर्तमानसम्वायेतरभावत्वम् । भूतपदप्रवृत्ति- निमित्तत्वेन पक्षत्वे आत्मान्यत्वे इत्याद्युक्तविशेषगुणवत्वस्यैव स्व- मते भूतपदप्रवृत्तिनिमित्तत्वात्स्वरूपासिद्धिर्दुर्वारैव । एवं भ्रम त्वसंशयत्वाद्यपि बोध्यम् ।

 अन्ये तु भूतत्वं पृथिव्यादिचतुष्टयवृत्तिजातिरेव । द्रव्यनिष्ठवि- लक्षणसंयोगलक्षणासमवायिकारण जन्यतावच्छेदकत्वेन तत्सिद्धेः ।

 न च जन्यद्रव्यत्वमेव तथेति वाच्यम् । जन्यत्वस्य निवेशे गौरवात् कालिकसम्बन्धेन घटत्वादिकमादाय विनिगमनाविरहा- ञ्च । द्रव्यवति द्रव्यान्तरानुत्पत्या समवायसम्बन्धेन द्रव्योत्पत्तिं प्रति समवायसम्बन्धेन इत्यस्य प्रतिबन्धकत्वावश्यकतया तत्प्रतिपध्य- तावच्छेदकत्वेन द्रव्याभावकार्यतावच्छेदकत्वेन च तत्सिद्धेश्च ।

 न च मूर्तत्वमेव तदुभयकार्यतावच्छेदकमखण्डागुरुव्याप्यध- र्मेण कार्यत्वसम्भवे व्यापकधर्मेण कार्यत्वकल्पनाविरहेण द्रव्यत्व: मादाय विनिगमनाभावादिति वाच्यम् । भूतत्वस्याकार्यानन्तमनो- व्यावृत्तत्वेन तस्यैव तदुभयकार्यतावच्छेदकत्वात् । अल्पतरनिय- ताजनकसाधारणेन क्लुप्तेनाक्लृप्तेन वा अगुरुधर्मेण कारणत्वे सुवचे बहुतरतत्साधारणधर्मेण तत्कारणत्वकल्पनानुदयवदल्पतरा- कार्यसाधारणेन क्लृप्तेनाक्लृप्तेन वा लघुधर्मेण कार्यत्वे सुवचे ब- हुतराकार्यसाधारणधर्मेण कार्यत्वस्यापि युक्तिसाम्येनाकल्पनात् ।

 यत्तु पदार्थखण्डने रघुनाथभट्टाचार्याः । मूर्त्तत्वं स्पन्दसमवा- यिकारणतावच्छेदको जातिविशेष भूतत्वं तदेवेति ।