पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


 क्रमशश्च---यदा मन्दालोके प्रथमन्तावद्वस्तुमात्रं सम्मुग्धमालोचयति, अथ प्रणिहितमनाः कुन्ताकृष्ट सशरसिञ्जिनीमण्डलीकृतकोदण्डः प्रचण्डतरः पाञ्चरो ऽयमिति निश्चिनोति, अथ च भाम्प्रत्येतीत्यभिमन्यते, अथाध्यवस्यत्यपसरामीतः स्थानादिति ।

 परोक्षे त्वन्तःकरणत्रयस्य बाह्यन्द्रियवर्जं वृत्तिरि- त्याह-अदृष्टं त्रयस्य तत्पूर्विका वृत्तिः इति । अन्तः-



 तन्न । मनोऽपि चासमवेतं भूतमिति त्वदुक्त्या नियसाधारण- मूर्त्तत्वस्य दुव्यनिष्ठविलक्षणेत्याद्युक्तासमवायिकारणजन्यतावच्छे- दकत्वानुपपत्तेः । अन्यथा तुल्ययुक्त्या सामान्यतो दुव्यत्वेन जन्य- सत्त्वं प्रति विशिष्य तत्तद्व्यक्तिसमवेतसत्त्वं प्रति तत्तद्व्यक्तित्वेन वा समवायिकारणस्य कारणत्वापत्त्या मूर्त्तत्वेन कारणत्वे मानाभावा- पत्तिः । नोदनस्य वेगजन्यकर्मणि वेगस्य नोदनजन्ये व्यभिचारेण विजातीयप्रयत्नवदात्मसंयोगस्यैव कर्मसमवायिकारणत्वावश्यकत्वे तदभावादेव विभुनि कर्मोत्पादासम्भवादियाहुः ।

 वस्तुतस्तु समवायजात्यादिखण्डनेन साङ्कर्यस्यापि खण्डित- त्वादिति ध्येयम् ।।

 क्रममाह । क्रमशश्चेति । आलोचयति । किञ्चिदिदमिति जानाति ।

 अथ । आलोचनानन्तरम् । पाटञ्चरोऽयमिति नि- श्चिनोति । तं विशिनष्टि । कर्णन्तेति । कणान्तं कणेनिकटमा- कृष्ट आनीतो यः शरस्तेन सह सिञ्जिनी ज्या धनुर्गुणस्तेन मण्डलीकृतः । दिक्षु व्यापी, कोदण्डो धनुर्येन तादृश इत्यर्थः । अध्यवस्यतीत्यस्यार्थमाह । अपसरामीति । पलाये इत्यर्थः । परो- क्षविषये इन्द्रियावृत्तेराह । इन्द्रियावर्जंमिति । विशेषान्तरमाह ।