पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०५
करणानां परप्रेर्यत्वाभाव निरूपणम् ।


करणत्रयस्य युगपत्क्रमेण वृत्तिद्दष्टपूर्विकेति । अनुमा- नागमस्मृतयो हि परोक्षे ऽर्थे दर्शनपूर्वाः प्रवर्तन्ते ना- न्यथा । यथा दृष्टे तथा ऽद्दष्टे ऽपीति योजना ॥ ३० ॥

 स्यादेतत-चतुर्णां त्रयाणां वा वृत्तयो न तावन्मा- त्राधीनाः, तेषां सदातनत्वेन वृत्तीनां सदोत्पादप्रसङ्गा- त , आकस्मिकत्वे तु वृत्तिसङ्करप्रसङ्गो नियमहेतोरभा- वादित्यत आह-


 स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुको वृत्तिम् ।
 पुरुषार्थ एव हेतर्न केनचित्कार्यते करणम् ॥ ३१ ॥


 स्वाम् इति । करणनीति शेषः । यथा हि बहवः पुरुषाः शाक्तीकयाष्टीकधानुष्ककार्पाणिकाः कृतसङ्के-



दृष्टपूर्विकेतीति । अनुमाने व्याप्तिज्ञानार्थं प्रत्यक्षापेक्षा शब्दे शक्त्यनुमानापेक्षया प्रत्यक्षापेक्षति भावः । परमाणुराकाशसंयोगी मुरुत्वादित्यादावपि पतनादिप्रत्यक्षस्य परम्परयोपयोगित्वं बो- ध्यम् । यथेत्यध्याहृत्य मुलं योजयति । यथेति ॥ ३० ॥

 अवसरसङ्गत्याऽऽयमवतारयति । स्यादेतदिति । पुरुषस्य कूटस्थत्वेनेश्वरस्य प्रतिषिद्धत्वेन कूटस्थत्वेन वा अप्रवर्तकत्वात्ता- वन्मात्रस्य प्रवर्तकत्वे वाह । न तावन्मात्रेति । तावन्मात्राधी- नत्वे दोषान्निर्हेतुकैवास्त्वित्यत आह । आकस्मिकत्व इतिसङ्करः । मनोवृत्तिरहङ्कारस्याहारवृत्तिर्मनस इत्यादि । यौगप- द्यपक्षे अकूतरूपोपाधिहेतुसत्वेन सदोत्पादसङ्करौ दुरीकुर्वन्नाकूत- पदसूचितं दृष्टान्तमाह । यथा हीति । शक्तिनामास्त्रीविशेषस्तयैव विहरतीति शाक्तीकः । एवमुत्तरत्रापि । कृपाणः खङ्गः । कृत- सङ्केताः सर्वैरस्माभिः परोऽयं शत्रुर्घातनीय इति । युग्माभिप्राय-