पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

ताः परावस्कन्दनाय प्रवृत्ताः, तत्रान्यतमस्याकूतमवग- म्यान्यतमः प्रवर्तते, प्रवर्तमानस्तु शाक्तीकः शक्तिमे वादत्तं नतु यष्ट्यादिकम् , एवं याष्टीको ऽपि यष्टिमेव न शक्त्यादिकम् । तथा ऽन्यतमस्य करणस्याकूतात् स्व- कार्यकरणाभिमुख्यादन्यतमं करणं प्रवर्तते । तत्प्रवृतेश्च हेतुत्वान्न वृत्तिसङ्करप्रसङ्ग इत्युक्तम्-स्वां स्वां प्रतिप- द्यन्ते इति ।  स्यादेतत्याष्टीकादयश्चेतनत्वात् परस्पराकूतमधग- म्य प्रवर्तन्त इति युक्तम् । करणानि त्वचेतनानि, तस्मा- नैवं प्रवर्तितुमुत्सहन्ते । तेनैषामधिष्ठात्रा करणानां स्व- रूपसामर्थ्योपयोगाभिज्ञेनभवितव्यमित्यत आह-“पुरु- षार्थ एव हेतुः, न केनचित्कार्यते करणम्" इति । भोगाप-




रूपाकूतस्याचेतने बाधात् प्रत्युन्मुखत्वपरत्वमाह । स्वकार्येति । तत्प्रवृत्तेः । अन्यतमप्रवृत्तेः । सङ्करेत्यनेन सदोत्पादोऽपि लक्ष्यते ।

 न चान्यतमकार्योन्मुखत्वेन पूर्वोक्तदोषाभावेऽपि क्रययौगप- द्यसङ्करोऽपरिहार्य एवेति वाच्यम् । अनुभवानुसारेण यौगपद्यं प्रति संशयादेः प्रतिबन्धकत्वकल्पनात् ।

 करणानां स्वरूपाभिज्ञकर्तृप्रेर्यत्वनियम इत्यभिप्रायेणाशङ्कते । स्यादेतदिति । करणस्य कर्तृप्रेयत्वनियमे कर्तृत्वमुपादानगो चरज्ञानचिकीपकृतिमत्त्वं तत्र ज्ञानादेः कार्यत्वेन कर्त्रपेक्षायामा- स्माश्रयाद्यापत्तेः । कर्तृव्यापारस्य च ज्ञानादेः करणाधीनत्वेन करणान्तरापेक्षायां करणानवस्थापत्ते । सुषुप्तात्स्वयमेव बुद्धेरु- त्थानदर्शनाञ्च । पुरुषार्थप्रयोजकादृष्टाभिव्यक्त्या स्वयमेव करणं प्रवर्त्तते इसवश्यमङ्गीकार्यमित्यभिप्रायेण समाधत्ते । भोगापवर्गल- क्षण इति । पुरुपार्थस्य प्रवृत्तेः प्रागसत्त्वादाह । अनागताव- स्थ इति । एक्कारव्यावर्त्त्यमाह । कृतमन्नेति। कुतं व्यर्थमित्यर्थः ।