पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

इति । यथा चत्तथोक्तं पुरस्तात् ।

 सामान्यलक्षणं विना विशेषलक्षणासम्भवादाह । न चेति । न व्यापारं विना कारकत्वमित्युक्ते व्यापाररूपक्रियानिमित्तत्वं कारकत्वमिति कारकसामान्यलक्षणं स्यात्तच्च न सम्भवति क्रियां प्रति निमित्तत्वं यदि जनकत्वं तदा विप्राय गां ददातीत्यादाव व्याप्तेः । यदि प्रयोजकत्वं तदा सम्प्रदानादेरनुमतिप्रकाशनद्वा- रेव तण्डुलादिसम्पादनद्वारा सम्बन्धिनोऽपि पाकादिक्रियानिमि- त्तत्वेन चैत्रस्य पचतत्यादौ चैत्रादावतिव्याप्तरितः क्रियान्वयि- त्वलाभावावेशपदम् ।

 न चैवमपि तण्डुलं पचतीत्यादौ कर्माद्यव्याप्तिः । तण्डुलादेः पाकाद्यन्वयाभावात् द्वितीयार्थधात्वर्थयोरेवान्वयादिति वाच्यम् । कर्तृत्वकर्मत्वादिषट्कान्यतमविभत्यर्थद्वारा क्रियान्वयित्वस्य वि- वक्षितत्वात् । तण्डुलं पचति चैत्रः पच्यते तण्डुल इत्यादौ द्वि- तीयार्थेन कर्मत्वेनाख्यातार्थेन कर्तृत्वेन कर्मत्वेन च तण्डुलादेः घात्वर्थपाकक्रियायामन्वयानाव्याप्तिः । चैत्रस्य पचतीत्यादौ चैत्रस- म्बन्धित्वं पाके नान्वेति षष्ठ्याः नामार्थाकाङ्क्षतया क्रियाया अपि कर्मादिकारकसाकाङ्क्षतया परस्पराकाङ्क्षाविरहात् । किं तु तण्डुल मित्यादिपदाध्याहारेण चैत्रस्य तण्डुलं पचतीत्येवान्वयबोधः । ओदनस्य भोक्ता चैत्रस्य पाक इत्यादौ कर्मत्वकर्तृत्वार्थकत्वेन कारकविभक्तिरेव कर्तृकर्मणोः कृतीति तद्विधानात् । तण्डुलः प- पचतीत्यत्र ने कर्मत्वसम्बन्धेनान्वयः कर्मत्वस्य द्वितीयाविभक्त्युः पस्थापितत्वाभावात् । स्तोकं पचतीत्यादौ द्वितीयायाः कर्मत्वान भिधायकत्वेनालक्ष्थत्वान्नाव्याप्तिः । अभिधायकत्वे कर्मणयादि- नैव द्वितीयासिद्धेः । क्रियाविशेषणस्य कर्मत्वं नपुंसकत्वं चेति वार्तिकवैयर्थ्यांपत्तेः । द्वितीयाया अभेदार्थकत्वाद्वा नाव्याप्तिः ।

 न च पचति चैत्र इत्यादौ वर्तमानकालीनो यः पाकानूकूल-