पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०९
प्रासङ्गिकस्तिङर्थविचारः ।


कृत्यभावस्तदन्वयिनश्चैत्रस्याकारकत्वापत्तिरिति वाच्यम् । प्रथमा- या कर्तृत्वानभिधायकत्वेन चैत्रस्य कारकवाभावात् । अत एव दक्षिणेन हिमवंतं,जटाभिस्ताप सः,पाकाय स्थाली,धूमाद्वह्नि,चर्मणि द्वापिनं इन्तीत्यादावुपपदद्वितीयादिविभक्तिस्थलेऽपि नाव्याप्तिः ।

 न च न पचतीयादौ वर्तमानन्वादेर्धात्वर्थ एवान्वयो भवत्वि ति वाच्यम् । वर्त्तमानपाककृतिकालेऽपि तदभावस्य पूर्वकाल स- त्वान्न पचतीति प्रयोगापत्तेः ।

 न चाभावेऽपि वर्तमानत्वमन्वेति । कृतौ तदन्वयस्य वैयर्थ्या- पत्तेः । निष्पन्नं चिरभाविनं वा ओदनं न पचतीत्यादौ तादृश- ओदनकर्मकपाकानुकूलकृत्यप्रसिद्ध्या तत्रानन्वयमसङ्गाञ्च । तस्मा- न्नञर्थे वर्तमानत्वान्वयः । एवं नापाक्षीन्न पक्ष्यतीत्यादौ चाती- तत्वमनागतत्वं च तादृश कृत्यभावे भासते न तु कृतौ पाकानुकू- लातीतकृतेस्तादृशानागतकृतेश्च सत्त्वेऽपि वर्तमानकाले तदभावस्य सत्त्वान्नापाक्षीदित्यादिप्रयोगोपपत्तेः । भाविनं नापाक्षीदित्यादौ तु भाविकमेकपाकानुकूलततकृतेः निष्पनं न पक्ष्यतीत्यादौ निष्पन्न कर्मकभविष्यत्कृतेश्चाप्रसिद्ध्या नञर्यानन्वयप्रसङ्गाच्च । अतीतत्वम- नागतत्वं चातीतानागतकालावछिन्नन्वं न तु वर्तमानध्वंसप्रागभा- वप्रतियोगित्वम् , अत्यन्ताभावे तदसम्भवात् । ध्वंसप्रागभावयोस्त- त्सम्भवेऽपि तद्बोधे प्रयोगनियमनिर्वाहात् । अन्यथाऽनागतपाक- योवत्तेमानयोर्वा तादृशकृतेः सत्वे एव न पक्ष्यतीति स्यात् । तदैव तादृशकृतिध्वंसस्य प्रागभावप्रतियोगित्वात् । एवमतीतादिकृतिसत्वे- एव नापाक्षीदिति स्यात्तदैव तादृशकृतिमागभावस्य वर्तमानध्वं-. सप्रतियोगित्वात् । इत्थं च नापाक्षीदित्यादावतीतकालावच्छिन्न- तादृशकृत्य भाववानिति न पक्ष्यतीत्यादौ चानागतकालावच्छिन्न- तादृशकृत्यभाववानिति धीः । वर्तमानत्वं च तत्तत्प्रयोगाधिकरण- कालत्वम् ।



 ५२