पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

‘ज्ञातो घटः" इत्यादिवत्कर्तृसाकाङ्कतया प्रकारान्तरेण विग्रहानुपपत्तेश्च । सुखादेसाक्षात्कारस्य स्वप्रतिबिम्बविशिष्टनित्यसाक्षिचैतन्यरूपतया: नाशाभावे संस्काराभावेन सुखादिस्मरणानुपपत्तिरिति न च वाच्यम् । सुखाद्याकारकृत्तिप्रतिबिम्बाङ्गीकारपक्षे दोषाभावात् । न चास्मिन्पक्षेऽपि अनवस्थापत्त्या वृत्तेवृत्त्यन्तरानभ्युपगमेन तदीयस्मरणानुपपत्तिरिति वाच्यम् । ‘यद्वृत्त्यवच्छिन्नचैतन्येन यत् प्रकाश्यते तद्वृत्त्या तद्गोचरसंस्काराधानम्'इति नियमाभ्युपगमात् । वृतिं विनाऽपि द्वितीयपक्षे स्मरणस्य व्युत्पादितत्वाच्च ।

तथाहि-प्रमात्वावच्छिन्नं प्रत्येवान्तःकरणस्य परिणामित्वाङ्गीकारेण जाग्रत्स्वप्नभ्रमविषयस्मरणानुपपत्तिनिरासाय यद्वृत्त्यवच्छिन्नत्वाद्यपेक्षया- लाधवात् ‘यदवच्छिन्नचैतन्ये यद् अवभासते तत्सूक्षमावस्था एव तत्संस्कारः’ इत्येव नियमः कल्प्यते, तेनैव जाग्रदादिभ्रमे स्वविषयसूक्ष्मावस्था- रूपसंस्कारात् सुषुप्तौ सूक्ष्ममनोऽवच्छिन्नचिद्भास्याविद्यादेः सूक्ष्ममनोनाशरूपस्थूलावस्थारूपसंस्कारात्स्मृतिसम्भवः । न च समानविषयकत्वनेियमभङ्ग इति वाच्यम् । पूर्वनियमवादिनोऽप्येतद्दोषसत्त्वात् । न च समानविषयकत्व नियमरक्षणाय वृत्तेरपि स्वविषयकत्वमङ्गीकृत्य जाग्रदूमस्थ- लेऽन्तःकरणस्य, स्वप्नसुषुप्त्योरविद्यायाः, सर्वत्र भ्रमेऽविद्याया एव वा वृत्तिस्वीकुर्मे इति वाच्यम् । असम्भवात् । तथाहि-च क्षुरादेः पुरोवर्तिविद्यमानवस्तुविषयकान्तःकरणवृत्युत्पादकत्वात् जाग्रद्भ्रमस्थलेऽन्तःकरणवृत्यसम्भवः । रजतोत्पत्त्यनन्तरं वृत्त्यभ्युपगमे प्रवृत्तौ द्वित्रिक्षणविलम्वापत्तिः । ज्ञानाज्ञानयोरेकावच्छेदेन चिद्विषयतानियमाय ज्ञानीयविषयतावच्छेदकतासम्बन्धेन ज्ञानंप्रति स्वीयविषयतावच्छेदकतासम्बन्धेना- ज्ञानस्य हेतुत्वं वाच्यम् । तच न सम्भवति । पश्चाद्भाविनः स्वीयकार्यस्य शुक्तिरजतादेः स्वीयविषयतावच्छेदकत्वासम्भवादिति ।