पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१५
बाह्यान्तःकरणयोर्वैधर्म्य निरूपणम् ।


प्रयोदशविधकरणे ऽवान्तरविभागं करोति--


 अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
 साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३


 अन्तःकरणम् इति । अन्तःकरणं त्रिविधम्-'बुद्धिर- हङ्कारो मन' इति; शरीराभ्यन्तरवर्तित्वादन्तःकरणम् ।

 दशधा बाह्यकरणम् । त्रयस्य अन्तःकरणम्य "वि- षयाख्यम्" विषयमाख्याति विषयसङ्कल्पाभिमाना- ध्यवसायेषु कर्तव्येषु द्वारीभवति । तत्र बुद्धन्द्रिया- प्यालोचनेन, कर्मेन्द्रियाणि तु यथास्वं व्यापारेण ।




प्रसङ्गाच्चेति वाच्यम् । लिङ्गशरीरस्य मातापितृजषाट्कौशिकस्थूल- शरीरोपादानत्वाभावात् , देहबीजैर्भूतसूक्ष्मैरित्युक्तिस्तु एतत्सत्वे एव स्थूलशरीरोत्पत्तिनन्यथेति प्रतिपादनाय । लिङ्गशरीर चैका दशेन्द्रियाणि पञ्चतन्मात्राणि बुद्धिश्चेति सप्तदशात्मकम् । न त्ववयवि ।।

 अहंकारस्य बुद्धावेवान्तर्भावः । कमात्मा पुरुषो योऽसौ बन्धमोक्षैः स युज्यते । सप्तदशकेनापि राशिना युज्यते च स इति मोक्षधर्मादौ राशिशब्देन स्थूलदेहवदवयवित्वनिराकरणात् । प्राण- शान्तःकरणवृत्तिभेद अतो लिङ्गदेहे प्राणपञ्चकस्याप्यन्तर्भावो बोध्यः । तदधिष्ठानशरीरं च सूक्ष्मपञ्चभूतात्मकम् । अतिवाह- कशरीरस्यैकत्वाभिधानं तु लिङ्गशरीराधिष्ठानशरीरयोन्योन्यनि- यतत्वेन सूक्ष्मत्वेन चैकताभिप्रायात् । तस्यैव भोगो न स्थूलशरी- रस्य मृत व्यभिचारात् अत एव भोगायतनं शरीरमिति सिद्धान्तः स्थूलशरीरे तदधिष्ठानत्वाद्गौणः शरीरव्यवहारः । अधिकं तु सुक्ष्मा मातापितृजा इत्यादौ दौ वक्ष्यते ॥ ३२ ॥

 अवसरसङ्गत्या ऽऽर्यामवतारयति । त्रयोदशेति ।द्बावारीभ-