पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१७
बुद्धीन्द्रियाणां विशेषाविशेषविषयकत्वविचारः ।

Z

पीलिकाण्डसञ्चरणाद्भविष्यानि वृष्टिरिति, तदनुरूपाश्च सङ्कल्पाभिमानाध्यवसाया भवन्ति ।

 कालश्च वैशेषिकाभिमत एका नानागनादिव्यव- हारभेदं प्रवर्तयितुमर्हति । तस्मादयं चैरुपाधि भदैरनाग- तादिभेदं प्रतिपद्यते सन्तु न एवोपाधयः, ये ऽनागतादि- व्यवहारहेतवः, कृतमत्रान्तर्गडुना कालनेति साङ्ख्या चायाः तस्मान्न कालरूपनत्वन्तरभ्युपगम इति ॥ ३३ ॥

 साम्प्रतकालानां बाह्येन्द्रयाणां विषयं विवेचयति--


 बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।
 वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ३४ ॥


 बुद्वीन्द्रियाणि इति । “बुद्धीन्द्रियाणि "तेषां दशानाभिन्द्रियाणामध्ये “पञ्च,” “विशेषाविशेषयाणि" - विशेषाः स्थूलाः शब्दादयः शान्तघोरमूलरूपाः पृथिव्यादिरूपाः, अविशेषास्तन्मात्राणि सूक्ष्माः शब्दाद- यः, मात्रग्रहणेन स्थुलभूनमपाकरोति । विशेषाश्च अवि- शेषाश्च विशेषाविशेषाः त एव विषया येषां बुद्धीन्द्रि- याणां तानि तथोक्तानि । तत्रोर्ध्वस्रोतसां योगिनां च श्रो- त्रं शब्दतन्मात्रविषयं स्थूलशब्दाविषयं च, अस्मदादीनां तु स्थुलशब्दाविषयमेव । एवन्तेषां त्वक स्थूलसूक्ष्मस्प- र्शविषया, अस्मदादीनां तु स्थूलस्पर्शविषयैव । एवञ्चक्षु- रादयो ऽपि तेषामस्मदादीनां च रूपादिषु सूक्ष्मस्थलेषु




प्रसंगसङ्गत्याऽऽर्यामवतारयति । साम्प्रतकालानामिति ।बाह्यन्द्रि- याणां विषयनिरूपणायाह-दशानामिति । शान्तति । शान्लो विपंच्यादिध्वनिः । घोरो मेघादेः । मूढो व्याघ्रादेरित्यर्थः । ध- र्मधर्मिणोरभेदाभिप्रायेणाह । पृथिव्यादिरूपा इति । कर्मेन्द्रि-



 ५३