पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१९
करणानां प्रधानगुणभावविचारः ।


र्वं विषय समनोऽहङ्कारा वुद्धिः यस्मादवगाहते ऽध्यव- स्यति तस्माद्वाह्यन्द्रियाणि द्वाराणि, द्वारवती च सान्तः- करणा बुद्धिरित ॥ ३५ ॥

 न केवलं बाह्यानीन्द्रियाण्यपेक्ष्य प्रधानं बुद्धिः, अपि तु ये अप्यहङ्कारमनसी द्वारिणी ते अप्यपेक्ष्य बु- द्धिः प्रधानमित्याह-


 एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
 कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ।।


 “एते” इति । यथा हि ग्रामाध्यक्षः कौटुम्बिकेभ्यः करमादाय विषयाध्यक्षाय प्रयच्छति, विषयाध्यक्षश्च स- वध्यक्षाय, स च भूपतये, तथा बाह्यान्द्रयाण्यालोच्य मनसे समर्पयन्ति, मनश्च सङ्कल्प्याहङ्काराय, अहङ्कार- श्चाभिमत्य बुद्धौ सर्वाध्यक्षभूताया,-तदिदमुक्तम्-‘पु- रुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति' इति ॥

 बाह्यन्द्रियमनोऽहङ्काराश्च गुणविशेषाः गुणानां सत्त्वरजस्तमसां विकाराः, ते तु परस्परविरोधशाला अपि

साधनत्वरूपगुणयोगात्कुठारस्य परम्परया करणत्ववत्तथाऽत्रा- पीत्यर्थः ॥ ३५ ॥

 उभयमपेक्ष्य बुद्धिरेव प्रधानमत्यभिप्रायेण पूर्वोक्तमङ्गत्या- ऽऽयमवतारयति । न केवलमिति । तत्र दृष्टान्तमाह । यथा हीति । कुटुम्बिभ्यो गृहस्थेभ्यः कर्षकेभ्यश्च । करपदं साक्षा- द्राजभोगभोग्यवस्त्रालङ्कारादिपरम् । विषपाध्यक्षाय । देश- ध्यक्षाय । सर्वाध्यिक्षाय । प्रधानाय । दार्ष्टान्तिकमाह । तथेति । गुणानां परार्थत्वादिति न्यायेन सामन्तवत्स्वातन्त्र्यं निराकरोति ।