पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


रन्तर विशेष "विशिनष्टि करोति-यथौदनपाकं -प- चतीति,-करणं च प्रतिपादनम् । ननु प्रधानपुरुषयोरन्त- रस्य कृतकत्वादनित्यत्वम्, तत्कृतस्य मोक्षस्यानित्य- त्वं स्यादित्यत आह-"विशिनष्टि" --'प्रधानं सविकार- मन्यदहमन्य' इति विद्यमानमेवान्तरमविवकेनाविद्य- मानामिव बुद्धिर्बोधयति न तु करोति, येनानित्यत्वमित्य- र्थः । अनेनापवर्गः पुरुषार्थो दशितः, “सूक्ष्मम्" दुर्लक्ष्य- मू-तदन्तमित्यर्थः ॥ ३७ ॥

 तदेवं करणानि विभज्य विशेषाविशेषान् विभजते-


 तन्मात्राण्यविशेषाः, तेभ्यो भूतानि पञ्च पञ्चभ्यः ।।
 एते स्मृता विशेषाः, शान्ता घोराश्च मूढाश्च ॥३८॥

 "तन्मात्राणि” इति । शब्दादितन्मात्राणि सूक्ष्मा- पुणे । न चैषां शांन्तत्वादिस्ति उपभोगयोग्य विशेष इति भात्रशब्दार्थः ।


धात्वर्थस्य लाभाद्धात्वर्थोऽत्र न विवक्षितः किन्तु प्रत्ययार्थ एवे- त्यभिप्रायेणाड । करोतीति । तत्र दृष्टान्तमाह । यथेति ।ओ - दनपाकमित्यत्र समाहारद्वन्द्वस्तथा चोदनं पचति पार्क पचति त- द्वदित्यर्थः । विशेषस्य नित्यत्वात्करण न सम्भवत्यत आह । कर- णं प्रतिपादनमिति । तथा चान्तरं विषयीकरोत्यध्यवसायरूपत्वा- ६ बुद्धेरित्यर्थः । तत्करणस्थ निष्प्रयोजनत्वमाशङ्क्यह । अनेनेति तस्य पुरुषार्थमोक्षसाधनत्वान्न वैयर्थ्यमिति भावः । श्रवणमनना- द्युपायं विनाऽन्तरस्य विषयोकणासम्भवात्तं विशिनष्टि । सूक्ष्ममिति ॥ ३७॥

 उपोद्धातसंगतिसूचनाय पूर्वोक्तमनुवदन्नार्यामवतारयति । तदेवमिति