पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१३
विशेषाविशेषनिरूपणम् ।


 अविशेषानुन्क्वा विशेषान्वक्तुमुत्पत्तिमेषामाह- "तेभ्य भूतानि" इति । तेभ्यस्तन्मात्रेभ्यो यथासंख्यमेक- द्वित्रिचतुःपञ्चभ्या भृतान्याकाशानिलानलसलिलाव- निरूपाणि "पञ्च" "पञ्चभ्यः" तन्मात्रेभ्यः ।।

 अस्त्वतेषामुत्पत्तिः, विशेषत्वं किमायातमित्यत आह- “एत स्मृता विशेषाः" इति । कुतः-"शान्ता घोराश्च मूढाश्च" । चकार एक हेतौ द्वितीयः समुञ्चये । यस्मादाकाशादिषु स्थुलेषु सत्त्व प्रधानतया केचिच्छान्ताः सुखाः प्रकाशा लघवः, केचिद्रजःप्रधानतया घोराः दुःखाः अनवस्थिताः, केचितमः प्रधानतया मूढा विषण्णा गुरवः । ते ऽसी परस्परच्यावृत्त्य ऽनुभूयमाना 'विशेषाः इति च "स्थुलाः" इति चाच्यन्ते तन्मात्राणि विस्मदा- दिभिः परस्परव्यावृत्तानि नानुभूयन्ते, इत्यविशेषाः सुक्ष्मा इति चोच्यन्ते ॥ ३८ ॥




 ननु तन्मात्राण्येव भोग्यानि स्युः कृतं भूतवशेषरित्यत आह । न चैषामिति । अस्मदाद्युपभोगयोग्यतासम्पन्दनायाह । यथासं- ख्यमिति । यथा चैतत्तथोक्तं पुरस्तात् । पञ्चभ्यः पञ्च भूनानी- त्यत्रोक्तानत्रानुद्य विशेषत्वाभिधानान्न पौनरुक्त्यमिति ध्येयम् । भू- तेषु विशेषस्य किं प्रयोजनमित्याशयेन पृच्छति । अस्त्विति । तथा चोभयभोग एवं प्रयोजनमत्यर्थः । तदेवाशङ्क्या पादयति । कुत इत्यादिना । सर्वेषां त्रिगुणत्वाविशेषादाह । द्वितीय इति । शब्दाः सुखदुःखमूढाः विपञ्चीसिंहव्याघ्रमेधादिशब्दाः । एवं स्प- श वाय्वग्निविषादिषु । रूपाणि कामिनीविद्युत्तिक्तादिषु । रसाश्च इक्षुराजर्षपनिम्बपत्रेषु । गन्धाः कर्पूरचंपककुसुमलशुनादिषु । उर्ध्द्वस्रोतसां भोगहेतो ऽप्यस्मदादीनां नानुभवपथमारोहन्तीत्या- ह । नानुभूयन्ते इति ॥ ३८ ॥