सूक्ष्मशरीरं विभजते-
पूर्वोत्पन्नमसक्तं नियतम्महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैधिवासितं लिङ्गम् ॥ ४० ॥
‘पूर्वोत्पन्नम्' इति । “पूर्वोत्पन्नम्” प्रधानेनादिसर्गे
प्रति पुरुषमेकैकसुत्पादितम् । “असक्तम्" अव्याहतम्
शिलामप्यनुविशति । “नियतम्" आ चादिसगदा च
महाप्रलयादवतिष्ठते,-"महदादिसूक्ष्मपर्यन्तम्”, मह
दहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्यन्तम् । एषां समुदा-
यः सुक्ष्म शरीरम्, शान्तधोरमूरिन्द्रियैरन्वितत्वाद्वि-
दिति" श्रुतिस्मृतिविरोधः परिमाणभेदेन धर्मभेदात्प्रलयपर्यन्ताव-
स्थानानुपपात्तथेति चेन्न।
पुरि स्थूलशरीरे शेते इति व्युत्पत्या शरीरव्याप्तिकथनेनंगु- ष्टपरिमाणस्यानियतत्वेन नियतपरिमाणबोधिने श्रुत्यादेस्तात्पर्याभा- वात् । तत्र तात्पर्यांगीकारेऽपि वृत्याख्यपरिणामविशेषेण सर्वशरीं- रव्याप्त्यंगीकारात् । वृत्तिश्च दीपशिखेव द्रव्यरूपपरिणामो न तु गुणः सर्पणानुपपत्तेरिति । अणुपरिमाणं तत्कृतिश्रुतेरिति [ सां० दशे० अ० ३ ० १४ ] सुत्रं तु तत्कृतिश्रुतेः क्रि- याश्रुतेः विज्ञानं यज्ञं तनुते इत्यादिश्रुतेर्न विभु किन्तु अणुपरिमाणपारिच्छ्न्निं न त्वत्यन्तमेवाणु सवयववादित्येवं व्याख्येयम् ॥ ३९ ॥
अवसरसंगत्याऽऽर्यामवतारयति । सूक्ष्मशररिमिति । मह- दादीत्यादि तु पूर्वं व्याख्यातम् । सूक्ष्पशरीरस्यावयावित्वं निरा करोति । एषां समुदाय इति । एवं चेत्कथमस्य भौगोपयोगि- त्वमित्यत आह । शान्तेति ।