पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२७
सूक्ष्मशरीरनिरूपणम् ।


शेषः ।

 नन्वस्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृ. श्यमानेन षाट्कौशिकेन शरीरेणेत्यत आह-"संसरति इति । उपात्तमुपात्तं षाट्कौशिकं शरीरं जहाति हायं हायं घोषादत्ते-कस्मात् इति "निरुपभोगम” यतः, षाट्कौशिकं शरीरं भांगायतनं विना सूक्ष्म शरीरं नि- रुपभोगं यस्मात्तस्मात्सूक्ष्मं शरीर संसरति ।




 एतेन इंद्रियाणां सात्त्विकाहंकारकार्यत्वेऽपि धर्माधर्मप्रधानदेव- तिर्यगदेहादौ न्यूनाधिकदृष्ट्यादिस्तु शान्तघोरादीन्द्रियैर्निर्वहतीति सूचितम् । यथा राज्ञः सूपकाराणां संचरणं पाकशालासु राजार्थं त- था लिंगशरीराणां स्थूलशरीरेषु संसृतिः पुरुषार्थमित्याह । उपात्त- मिति । हायां हायां चेति । हित्वा हित्वा चेत्यर्थः ।

 ननु न विद्यते उपभोगः सुखसाक्षात्काररूपो यस्य येन वा तन्निरुपभोगमिति तच्च लिंगशरीरस्य बाधितं तद्धटकबुद्धेः पुरुषे सु- खाद्याकारपरिणामप्रतिबिम्बजनकत्वात् । सुखादिसाक्षात्काररूपचै तन्यप्रतिबिम्बाश्रयत्वाच्चचे त्याशंक्य ताद्वाशनष्टि । षाटूकशिक- शरीरं विनेति ।

 नन्वेवं संसृतिकाले भोगाभावप्रसंगः । न चेष्टपित्तः । यम- मार्गे दुःखभोगप्रतिपादकवाक्यविरोधापत्तेरिति चेन्न। तत्र वायवीय- शरीरान्तरप्रवेशश्रवणात् । वृक्षगुल्मलतौषधिवनस्पतितृणवीरुधा- दीनामपि स्थूलशरीरत्वांगीकारान्न दोषः । हस्तपादादिरहितस्य शरीरत्वसंभवात् ।।

 न च धमोदिसहकृत बुद्धेरे जनकत्वमस्तु कृतं स्थूलशरीरेणे- ति वाच्यम् । “अभिवादितश्च यो विप्र आशिषं न प्रयच्छति । श्म- शाने जायते वृक्षो गृध्रकंकनिषेवितः । शरीरजैः कर्मदोपैयति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्थजातिता" मियादि-