पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


रुषस्य ज़ातस्योत्तरकालदेवताराधनादिनोत्पन्नाः । "प्रा- कृतिका", श्वाभाविका भाव सांसिद्धिकाः । तथा- हि-सर्गादावादिविद्वानत्रभगवान् कपिलो महामुनिर्धर्न-. ज्ञानवैराग्यैश्वर्सम्पन्नः प्रादुर्बभूवेति स्मरन्ति । वैकृभा- श्च भावा असांसिद्धिकाः, ये उपायानुष्ठानेनोत्पन्नाः, पथा प्राचैतसप्रभृतीनाम्महर्षीणाम् । एवमधर्मज्ञाना- वैराग्यानैश्वर्याण्यपि ।

 कार्यं शरीरं तदाश्रयिणः, तस्यावस्थाः, कललबुद्- बुदमांसपेशीकरण्डाद्यङ्गप्रत्यङ्गव्यूहाः गभस्थस्य, ततो निर्गतस्य बालस्य बाल्यकौमारयौवनवार्धकानीति॥४३॥

उपायेति । अस्मदादिश्चमद्या अप्युपायसाध्यत्वाद्वैकृतिका इति बोध्यम् ।

 निमित्तविभागं दर्शयित्वा नैमित्तिकविभागमाह । कार्यमिति। शरीरं लिंगशरीरम् । “एकरात्रोषितं कललं भवती" त्यादिश्रु- तिमाश्रित्याह । कललेति । कलले शुक्रशोणितयोर्मिश्रणम् । बुद्बु दश्शुकस्याधोभावेन शोणितस्योर्द्धभावेनावस्थानम् । मांसपेशी त्वगाद्यर्थं पिंडाद्याकारिता । कंडरा सुषुम्णाधारमेरुदण्डः । अंगं शि- रःकरचरणादि। प्रत्यंगमंगुल्यादि। एते सर्वे व्यूहाः संस्थानरूपा गर्भ- स्थस्यावस्थाः ततो निगतस्य बाल्यकैशोरपौगंडयौवनवार्द्धकादिः । सप्तमे जीवेन संयुक्तः, नवमे पूर्वजातीः स्मरति शुभाशुभं च। यदि योन्याः प्रमुच्येऽहं तत्पपद्ये महेश्वरं योनिद्वारं सम्प्राप्तो यन्त्रेण संपीड्यमानो महता दुःखेन जातमात्रस्तु वैसावेन[१] वायुना संस्- ष्टो न तदा स्मरतीत्यादिश्रुतेः ।। ४३ ॥



  १ प्रसवसम्बन्धिनेत्यर्थः ।