पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३३
धर्माद्यष्टभावानां फलनिरूपणम् ।


 अवगनानि निमित्तनैमित्तिकानि । कतमस्य तु नि- मित्तस्य कतमन्नमात्तकामत्यत आह-


 धर्मेण गमनमूर्ध्वं, गमनमधस्ताद्भवत्य धर्मेण ।।
 ज्ञानेन चापवर्गों, विपर्ययादिष्यते बन्धः ॥ ४४ ॥


 “धर्मेण गमनमूर्ध्वम्” द्युप्रभृतिषु लोकेषु । “ग- मनमधस्ताद्भवत्यधर्मेण सुतलादिषु लोकेषु । “ज्ञानेन चापवर्गः” । तावदेव प्रकृतिभेगमारभते न यावद्विवे- कख्यातिं करोति । अथ विवेक्यातौ सत्यां कृतकृत्यतया विवेकख्यातिमन्तम्पुरुषम्प्रति निवर्तते । यथाहुः---


 "विवेकख्यातिपर्यन्तं ज्ञेयं प्रकृतिचेष्टितम्" इति ।
 “विपर्थयात्" अतत्वज्ञानात् “इष्यते बन्धः" ॥


 स च त्रिविधः-प्राकृतिको वैकृतिको दाक्षिणकञ्चे- ति । तत्र प्रकृतावात्मज्ञानाद्ये प्रकृतिमुपासते तेषां प्राकृ- तिको बन्धः, यः पुराणे प्रकृतिलयान् प्रत्युच्यते ।

 “पूर्ण शतसहस्रं हि तिष्ठन्त्यव्यक्तीचिन्तकाः" इति ।
 वैकारिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाह




 प्रसंगसंगत्याऽऽर्यामवतारयति । अवगतानीति । धर्मेण । केवलशल्केन परहिंसारहितेन । शुक्लकृष्णेन च परहिंसापूर्वकेण । ऊर्द्ध ब्राह्मप्राजापत्यैन्द्रगान्धर्वयाक्षराक्षसपैशाचादिषु लोकेषु । सुतलादिषु । अतलवितलमहातलसुतलतलातलरसातलपाताले- ष्वित्यर्थः । आदौ सुतलग्रहणं तु क्वाचिकतादृशपुराणपाठाभिप्राये- ण । याति प्रकृतिचेष्टितमिति । प्रकृतिचेष्टितम् । प्रकृतेर्महत्तवादि परिणामो याति प्राप्नोति भवतीति ।।

 पूर्ण शतसहस्रं मन्वन्तराणामिति शेषः । इंद्रियवशीकृ- तान्मत्वाऽऽहेन्द्रियचिन्तका इति । विगतज्वरा इति । पंचनामेव


  ५५