पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

गस्य गृहीतम्, तच्च व्यावर्त्तमानं तस्य संयोगत्वमपि व्यावर्तयतीति वाच्यम् । कारणबहुत्वकारणमहत्वप्रचयविशेषरूपत्रितयकारणज्न्यत्वं गहत्वस्य गृहीतं, तेनात्मादिषु व्यावर्त्तेनानेन महत्वस्यापि व्याहृत्त्वाप्त्तेश्च । ज्ञानस्यास्मदादिशरीरेन्द्रियादिजन्यत्वनियमेनेश्वरस्य शरीरादिनिवृत्त्या तन्निवृत्त्पयात्तेश्च । ज्ञानस्यास्मदादिशरीरेन्द्रियादिजन्यत्वानियमेने श्वरस्य शरीरादिनिष्ठत्या तन्निदृत्यापत्तश्च ।

नच प्रकृतिपुरुषयोस्संयोगाङ्गीकारे पुरुषस्य प्रकृतिवत् परेिणाम- सङ्गौ प्रसज्जेयाताम्, संयोगस्योभयपरीणामरूपत्वादिति वाच्यम् । सामान्यगुणातिरिक्तधर्मस्यैव परिणामत्वात् । अन्यथा कूटस्थस्य सर्वमूर्तसंयोगित्स्वरूपविभुत्वानुपपत्तेः । परिणामहेतुसम्बन्धस्यैव सङ्गशब्दार्थत्वे द्वितीयदोषाभावात् । अन्यथा पुरुषासङ्गतायां पद्मपत्र- स्थलजलेन पत्रासङ्गतया दृष्टान्तत्वानुपपत्तेः । नन्वविवेकोऽत्र न प्रकृतिपुरुषाभेदसाक्षात्कारः, संयोगात्प्रागसत्त्वात् । नापि विवेकप्रागभावः, जीवन्मुक्तस्यापि भाविविवेकव्यक्तिमागभावेन धर्मार्धर्मोत्पत्तिद्वारा पुनर्बन्धप्रसङ्गात्। किंतु “अहमज्ञः' इत्यादि- ज्ञानवासनारूपो वाच्यः, स च बुद्धिधमेस्तेनान्यत्र संयोगजनने मुक्तेऽपि तज्जननापत्तिरिति चेत्,न । स्वस्वबुद्धिभावापन्नमकृतिवृत्यगृहीतासंसर्गको- क्तप्रकृतिपुरुषोभयविषयकबुद्धिवृत्तिरूपज्ञानवासनारूपस्याविवेकस्य प्रतिबिम्बरूपविषयतासम्बन्धेन पुरुषधर्मत्वात् । मुक्तपुरुषेषु साक्षात्कारेण नष्टस्य प्रतिबिम्बासम्भवेन न संयोगोत्पात्तिः । नच सत्कायवादे निरन्वयनाशानभ्युपगमेन पुनः स्वस्वबुद्धिभावा- पन्नप्रकृत्युत्पत्त्या तदुत्पतेरावश्यकत्वादुक्तदोषतादवस्थ्यमिति वाच्यम् । मूलप्रकृतेर्नित्यत्वेऽप्युक्तावस्था रूपपरिणामस्य निरन्वयनाशाभ्युपगमात् । पुनस्तदुत्पत्त्यभावान्न सत्कार्यवादहानिरपि । न चोक्ताविवेकस्य प्रकृतिकार्यबुद्धिपुरुषाविवेकरूपत्वेन मूलप्रकृतिपुरुष संयोगाजनकत्वादगृहीतासंसर्ग-