ङ्कारबुद्धीः पुरुषाधियोपासते, तान् प्रतीदमुच्यते --
“दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः।
भौतिकास्तु शतपूर्णं, सहस्रन्स्वाभिमानिकाः ॥
बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वरा" ।
ते खल्वमी विदेहा येषां वैकृतिको बन्धः ॥
इति ।
इष्टापूर्तेन दाक्षिणकः । पुरुषतवानभिज्ञो हीष्टापूर्तका-
री कामोपहतमना बध्यते इति ॥ ४४ ॥
वैराग्यात् प्रकृतिलयःसंसारो भवति राजसाद्भागात् ।
ऐश्वर्यादविघातो, विपर्ययात्तद्विपर्यासः ॥ ४५ ॥
“वैराग्यात् प्रकृतिलयः,” इति-पुरुषतत्वानभिज्ञ-
स्य वैराग्यमात्रात् प्रकृतिलयः प्रकृतिग्रहणेन प्रकृतिमह
दहङ्कारभूतेन्द्रियाणि गृह्यन्ते, तेष्वात्मबुद्ध्योपास्यमानेषु
लयः । कालान्तरेण च पुनराविर्भवति ।
‘संसारो भवति राजसाद्रागात् ’ इति । रजसात्’ इत्यनेन । रजसो दुःखहेतुत्वात् संसारस्य दुःखहे-
विशेषणम् । विगतज्वरत्वे हेतुमाह । विदेह इति । इष्टम् यागहो- मादि । आपृर्त्तं वापीकूपतडागादि । प्रकृत्यादिलयेऽपि न कृतकृत्यता संख्याश्रवणात् । पुरुषं प्राप्य कालसंख्या न विद्यते इति मुक्तेर्न पुनरावृत्तिरित्यर्थः ॥ ४४ ॥
ज्ञानरहितस्य विरक्तस्यापि मोक्षो न सम्भवतीत्याह । वैरा ग्यादिति । मात्रपदेन तत्त्वज्ञानं व्यावर्त्त्यते । प्रकृतौ वैराग्यवतो ऽन्योपासनातः प्रकृतिलयासम्भवादाइ । प्रकृतग्रहणेनेति ।
संसारनिमित्तत्वं धर्मादेरुक्तं तन्न सक्षात्किन्तु रागद्वरेत्यभि प्रायेणाह । राजसाद्गागादिति । राजसादित्युक्तेः फलमाह । रा- जसादित्यनेनोति । दुःखहेतुतासूचनं च हेयतालाभायेत्यर्थः ।