तुता मुचिता ।।।
“ऐश्वयादविघात" इति-इच्छायाः । ईश्वरो हि यदेवेच्छति तदेव करोति । “विपर्ययात्" अनैश्वयात् “तद्विपर्यासः सर्वत्रेच्छाविघात इत्यर्थः ॥ ४५ ॥
बुद्धिधर्मान् धर्मादानष्टौ भावान् समासव्यासाभ्यां मुमुक्षूणां हेयोपादेयान् दशयितुं प्रथमन्तावत् समास- माह-
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्दात, तस्य च भेदास्तु पञ्चाशत् ॥ ४६॥
“एषः' इति । प्रतीयते ऽनेनेति प्रत्ययो बुद्धिः, तस्य
सर्गः । तन्न “विपर्ययः अज्ञानमविद्या, सा ऽपि बुद्धि-
धर्मः । “अशक्तिः" अपि करणवैकल्यहेतुका बुद्धिधर्म
कस्याविघात इत्यतः पूरयति । इच्छाया इति । इच्छाया अवि-
घातत्वं स्वविषयसिद्ध्युपहितत्वम् ।।
अन्ये तु ऐश्वर्यादणिमादिलक्षणादविघातो गतिप्रतिबन्धा- भावः । विपर्ययादनैश्वर्यात्तद्विपरीतात्तविपर्यासः सर्वत्र गति- विच्छेद इत्याहुः ।
अत्र शास्त्रनिषिद्धाविषयकगात्प्रवृत्तिद्वारा नरकः एवं योगा- दिरागात्स्वर्गादिः । स्त्र्यादिगोचराच्छास्त्रविहितकर्मकरणेनेहलो- कभोगपुरःसरपरलोकपासिरिति बोध्यम् ।। ४५ ।।
मोक्षबन्धानुकूलत्वेनोपद्धातसंगतिं सूचयन्नार्यामवतारयति । बुद्धिधमानिति । अष्टौ धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्व- याणि । विपर्ययादीनां तत्त्वान्तरत्वनिराकरणाय प्रत्ययेति विशेषण- मित्याह । प्रतीयत इति । तथा च विपर्ययादीनां बुद्धिकार्यत्वेन बुद्धावन्तर्भावान्न तान्तरत्वमिति भावः ।