एच । “तुष्टसिद्धी' अपि वक्ष्यमाणलक्षणे बुद्धिधार्मावेव
तत्र विपर्ययाशक्तितुष्टिषु यथायोगं ससानाञ्च धर्मा-
दीनां ज्ञानवर्जमन्तभावः, सिद्धौ च ज्ञानस्यति ॥
व्यासमाह-"तस्य च भेदास्तु पञ्चाशत्" इति । कस्मात् १ “गुणवैषम्यविमर्त्' इति । गुणानां वैषम्य- मेकैकस्याधिकबलता द्वयोर्द्वयोर्वा, एकैकस्य न्यूनबलता द्वयोर्द्वयोर्वा, ते च न्यूनाधिक्ये मन्दमध्याधिक्यमात्र- तया यथाकार्यमुन्नीयेते । तदिदं गुणानां वैषम्यम् तेनो- पमर्दः, एकैकस्य न्यूनस्य द्वयोर्वा ऽभिभवः । तस्मात्त-
पूर्वोक्तमज्ञानं परिभाषान्तरेणाह। विपर्यय इति । पूर्वोक्ता-
नां धर्मादीनां विपर्ययादिष्वन्तर्भावमाः । तत्रेति । यथायोग-
मिति । तत्र विपर्यये अधर्माज्ञानयोः प्रवेशः । विपर्ययस्य नरक-
हेतुत्वात् । अशक्तौ अनैश्वर्यावैराग्ययोस्तस्या दुःखहेतुत्वात् ।
तथा चानुभवः अहमतिदुःखी यतो ऽशक्तोऽहमिति । तुष्टौ ध-
मेवैराग्यैश्वर्याणाम् । यतो धर्मी तुष्यति सर्वदा तथा विरक्तोऽपि
ईश्वरस्तुष्यत्येवेति ।
अन्ये तु विपर्ययस्याज्ञाने । करणवैकल्यं बधिरतादिदोषः । स हेतुर्यस्याः अशक्तेस्तस्या अधर्मे, तुष्टेधर्मे, सिद्धज्ञानेऽन्तर्भावः । अज्ञानादयस्तु बुद्धेरेवातो विपर्ययादयोऽपि न तत्वान्तरमत्याहुः ।
तस्य । प्रत्ययसर्गस्य । ननु कथमेककारणादनेककार्याणीत्या- शङ्कते । कस्मादिति । समाधत्ते । गुणवैषम्येति । तेनाधिकन्यून- बलेनेत्यर्थः । न्यूनाधिक्य इति । भवत इति शेषः । ते च कार्ये- णोन्नये इत्याह । मन्दमध्येति । भन्दादेः कार्येऽन्वयः । यथा य- दि आलस्यादिवशादीषद्ग्राहकता तदा तमस आधिक्यम् । य- दि विक्षेपप्राधान्यान्मन्दग्राहकता तदा रजसः प्राधान्यम् । यदि प्रकृष्टग्राहकता तदा सवस्य प्राधान्यम् । एवं सत्वरजसोः स-