पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३७
'बुद्धेः सर्गस्य पञ्चाशद्भेदाः ।

स्य भेदाः पञ्चाशदति ॥ ४६ ॥

 तानेव पञ्चाशद्भेदान् गणयति-


 पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।
 अष्टाविंशतिभेदा, तुष्टिर्नवधा, ऽष्टधा सिद्धिः॥ ४७॥

 

 “पञ्च” इति । अविद्याऽस्मितारागद्वेषाभिनिवेशा यथासंख्यं तमोमोहमहामाहातामिस्रान्धतामिस्रसञ्ज- काः पञ्च विपर्ययविशेषाः, विपर्ययप्रभवानामप्यस्मिता- दीनां विपर्ययस्वभावत्वात् । यद्वा -यदविद्यया विपर्य- येणावधार्यते वस्तु अस्मितादयतत्स्वभावाः सन्तस्तद्-


त्वतमसो रजस्तमसोर्वाऽऽधिक्यं बोध्यम् । पदार्थ व्याख्याय वा- क्याथमाह । तदिदमिति । उपसंहरति । तस्मादिति ॥ ४६ ॥

 आर्यामवतारयति । तानेवेति । योगसूत्रानुसारेणाह । अविद्येति । तानव नामान्तरेणाह । यथासंख्यामिति । अस्मितादीनां विपर्ययकार्यत्वाद्विपर्ययत्वमित्याह । विप- र्ययप्रभवानामिति । एतत्कथनं त्वविद्यासमुच्छेदे तेषा मपि समुच्छेदोऽवश्यम्भावीति सूचनाय । तेषामुच्छेत्तव्य- ताहेतुः संसारकारणत्वम् । अस्मितादयः जात्यायुर्भोगरूपपुरुषा- र्थाय परस्परानुग्रहं कुर्वन्तः परिणामहेतुबलसंपादनेनाव्यक्तमह- दादिकार्यपरम्परामुद्भावयन्तीत्यर्थः ।।

 ननु अविद्यातः प्रभवत्वेऽप्येषां कथं तत्स्वभावत्वं न हि कुवि- न्दादिप्रभवानां पटादीनां तत्स्वभावता तन्निवृत्तौ तन्निवृत्तिर्वेत्यत आह । यद्वेति। वस्तुपदोत्तरं तद्वस्तु अनुशेरते विपर्यसकाल एवोप- लभन्ते इति पुरणीयम् । तथा चाविद्यया विपर्ययाख्यया यद्वस्तु आकार्यते समारोप्यते तदनुशेरते तत् विपर्यासकाल एवोपलभन्ते- ऽस्मितादयोऽतस्तद्विपर्यासस्वभावास्तत्र विपर्यासे एव निविशन्त-