पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३९
बुद्धेः सर्गस्य पञ्चाशद्भेदाः ।


 “दशविधो महामोहः' इति । शब्दादिषु पञ्चसु दिव्यादिव्यतया दशविधविषयेषु रञ्जनीय राग आ- : सक्तिर्महामहः, स चे दशावधविषयत्वाद्दशाविधः ॥

 “तामिस्रो" देषो "ऽष्टादशधा'" । शब्दादयो दश विषया रञ्जनीयाः स्वरूपतः, ऐश्वर्यन्त्वणिमादिकन्न स्व- रूपतो रञ्जनीयम्-किं तु रञ्जनीयशब्दाद्युपायाः । ते च शव्दादय उपस्थिताः परस्परेणोपहन्यमानास्तदुपायाश्चा- णिमादयः स्वरूपेणैव कोपनीया भवन्तीति शब्दादि- भिर्दशभिः सहाणिमाद्यष्टकमष्टादशधति, तद्विषयो द्वे- षस्तामिस्रो ऽष्टादशविषयत्वादष्टादशधेति ।

 “तथा भवत्यन्धतामिस्रः” । अभिनिवेशो ऽन्धता- मिस्रः । तथेत्यनेनाष्टादशधत्यनुषज्यते । देवाः खल्व- णिमादिकमष्टविधमैश्वर्यमासाद्य दश शब्दादीन् विष- यान् भुञ्जानाः-शब्दादयो भाग्यास्तदुपायाश्चाणिमाद-




क्तिः रागो महामोह इत्याह । राग आसक्तिरिति


 ननु विषयाणां स्त्र्यादीनामनेकत्वात्कथं विषयभेदेन दशवि- धत्वमिति । न चैकेन्द्रियग्राह्यत्वरूपविषयत्वं विवक्षितमिति वाच्यम् । सुखे तत्साधने च स्त्र्यादौ रागस्य सम्भवेन तथा विवक्षाया निरर्थ- कत्वादिति चेन्न । धर्मधर्मिणोरभेदेन स्त्र्यादेस्तन्मध्ये एवान्तर्भा- वात् । न हि रूपादिरहितस्त्र्यादिकमस्ति ।

 तामिस्रो द्वेष इति पर्याय इत्याह । तामिस्र इति । द्विव्यादि- व्यविषयरूपेण शद्बादयो दश तत्प्रत्युपाया अणिमादयोऽष्टौ तद्वि- षयत्वाद्द्वेषोऽप्यष्टादशधेत्यभिप्रायेणाष्टादशविषयत्वमुपपादयति। श- द्वादय इति । खरूपतः विषयत्वेन । उपायेषु भेदकमाह । ऐश्व- र्यणीति । द्वेषविषयत्वे हेतुमाह । परस्परेणोपहन्यमाना इति- उपहन्यमाना निवर्यमाना इयर्थः । अभिनिवेशस्त्रासोऽन्ध-