पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


यो ऽस्माकमसुरादिभिर्मोपघानिषत' इति–बिभ्यति । तदिदं भयमभिनिवेशो ऽन्धतामिस्रो ऽष्टादशविषयत्वा- दष्टादशधेति ॥

 सो ऽयं पञ्चावधो विकल्पो विपर्ययो ऽवान्तरभेदाद- द्वाषषिरिति ।। ४८ ॥

 तदेवं पञ्चविपर्ययभेदानुक्ता ऽष्टाविंशतिभेदामश- क्तिमाह-


 एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
 सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ।। ४९ ॥

 

 "एकादश"-इति । ( इन्द्रियवधस्य ग्रहो बुद्विवधहे- तुत्वेन, न त्वशक्तिभेदपूरणत्वेन)"एकादशेन्द्रियवधाः"-


 “बाधिर्यं कुष्ठता ऽन्धत्वं जडता ऽजिघ्रता तथा ।
 सूकता कौण्यपङ्गुत्वे क्लैब्योदावर्तमन्दताः ॥


 यथासंख्यं श्रोत्रादीनामिन्द्रियाणां वधाः । एताव-




तामिस्र इति पर्याय इत्याह । तथेति । तत्रोपपत्तिमाह । देवा इ- ति । बिभ्यति । भयं प्राप्नुवंति । तथा चाष्टादशविषयकइनन- निमित्तं भयमित्यर्थः ।

 उपसंहरति । सोऽयमिति । पंचधा विकल्प्यन्ते इति पंच विकल्या इत्यर्थः । ४८ ।।

 उपोद्धातसंगत्याऽऽर्यामवतारयति । तदेवमिति । दोषरूपव- धान् गणयति । बाधिर्यामिति । बाधिर्यं श्रोत्रस्य, कुष्टिता त्वचः स्पर्शाग्राहकता, जिह्वाया जडता रसाग्राहकता । मूकता वाचः शब्दा- जनकता । क्लैब्यमपत्याजनकता शिश्नः, उदावर्तेः उदध्वानहेतु- र्गदस्य मन्दता । प्रमादो मनसः । इतरत्स्पष्टम् । श्रोत्रादीनाम् । श्रेत्रादिमनोन्तानामेकादशेन्द्रियाणामित्यर्थः। एतावती। एतावत्सं-