पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४१
अशक्तेरष्टाविंशतिर्भेदाः ।


त्येव तु तद्धेतुका बुद्धेरशक्तिः स्वव्यापारे भवति । तथा चैकादशहेतुकत्वादेकादशधा बुद्धेरशक्तिरुच्यते । हेतुहे- तुमतोरभेदविवक्षया च सामानाधिकरणम् ॥

 तदेवमिन्द्रियवघद्वारेण बुद्वैरशक्तिमुक्ता स्वरूपतो- ऽशक्तीराह-"सह बुद्धिवधैः” इति । कति बुद्धेः स्वरू- पतो वधा इत्यत आह । “सप्तदश वधा बुद्धेः" । कुतः ? "विपर्ययातुष्टिसिद्धीनाम् ।” तुष्टयो नवधेति तद्विपर्य- यास्तन्निरूपणान्नवधा भवान्त, एवं सिद्धयो ऽष्टाविति




ख्याका ।तद्धेतुका । दुष्टेन्द्रियहेतुका दोषहेतुका वा । स्वव्यापारे भवतीति । बाधियादिदोषदुष्टेन्द्रियैद्वारभूतैरनुपस्थिते तत्तद्विषये द्वारिणी बुद्धिरशक्ता पुरुषायार्थं न समर्पयतसर्थः ।

 इन्द्रियाणामशक्तिः कथं बुद्धरुच्यते इत्यत आह । हेतुहेतु मतोरिति । इन्द्रियाणि हेतुबुद्धिर्हेतुमती हेतुदोषो हेतुमत्युपच- र्यत इत्यर्थः । सामानाधिकरण्यं चैकादशेन्द्रियवधा इत्यत्र ।

 न चानेकरोगादिकृतानां चकचिक्यादिदोषविशिष्टविषयकृता- नां चाशक्तीनां रोगदोषसमसंख्यतया कथमष्टाविंशतित्वमिति वाच्यम् । रोगाणामिन्द्रियादिवधे एवोपक्षीणत्वात् । विषयदोषा- ण तत्तद्रूपेण विषयग्रहप्रतिबन्धकत्वे रूपान्तरेण प्रतिबन्धकत्वाभा- चेनाशक्त्यप्रयोजकत्वात् ।

 तुष्टीना भेदेऽपि कथं तद्व्यतिरेकरूपाविपर्ययस्य भेद इत्यत आह । तन्निरूपणादिति । निरूपकायास्तुर्ष्टेभेदे तत्प्रतियोगिका अतुष्टयो नवेत्यर्थः । नास्त प्रधानमति प्रतीतिरसुवर्णनाम्नी अतु- ष्टिः प्रथमा । एवं नास्ति महत्तत्त्वमित्यज्ञानमलिनानाम्नी द्वितीया । तथाऽहंकारस्यादर्शनं मनोज्ञानाम्नी तृतीया । तथा नैव सन्ति त- न्मात्राणि भूताकाराणीत्वदृष्टिनाम्नी चतुर्थी । विषयाणामर्जने प्रवृ- त्तिरपरानाम्नी पञ्चमी । रक्षणे प्रवृत्तिः सुपरानाम्नी षष्ठी । तत्क्ष-


  ५६